________________
खोपन-टीकासहिता।
दो दाने इत्येकाक्षरनिघण्टुवचनात् वा दाः दानानि तेषामालयः श्रेणयो मद्राणि च मङ्गलानि ततस्तत्पुरुषगर्भे द्वन्द्वे दालिमद्राणि यस्य स तथा चञ्चन्ति उल्लसन्ति दालिमद्राणि यस्य स तथा तस्य सबोधनं, तथा हे अखखारिक ! खमिन्द्रियं स्वर्गशून्यभूपाकाशसुखेषु चेति वचनात् प्रथमखशब्दः सुखार्थः द्वितीयस्त्विन्द्रियार्थः ततो न विद्यते खं सुखं येषां तेऽखाः खानि इन्द्रियाण्येवारयः खारयः अखाः खारयो यस्य स समा. सान्ते काचे अखखारिकः दान्तेन्द्रियशत्रुरित्यर्थः तस्या मन्त्रणं, पुनरहं कथं भूतः साकुची कुचौ स्तनौ तद्धारणया लक्षणया हृदयमपि तथा ततश्च न विद्यते कुचौ येषां तेऽ कुचा असहृदया मूर्खा इत्यर्थः सहाकुचैविद्यते यः स साकुचः मूर्खाचारो मूर्खवाग्विलासो ज्ञानाभावी वा ऽन्यो वा यः कश्चिन्मूर्खगुणः स विद्यते ऽस्मिन्निति साकुची। तथा हे खाजलाम् ! खमाकाशं अजडाश्च ज्ञानमयत्वेनात्मान उपलक्षणत्वाद्धर्माधर्मका