Book Title: Jain Stotra Sanchayasya Part 1 2 3
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah Kapadwanj

View full book text
Previous | Next

Page 15
________________ प्रयत्वमित्यत्र 'मह' मित्यस्य च सावकाशत्वात् पूजितत्वमित्यादिषु उभयोः सूत्रयोः स्पर्धे परत्वात् त्वमहं सिना० | २ । १ । १२ । इत्येव प्रवर्त्तते. ' स्पर्धे पर ' इतिन्यायात् । एवं तुभ्यं यूयं तवाद्यादेशेष्वपि सावकाशत्यादि वाच्यं । हीलण् चुरादिधातुः बहुलमेव निदर्शनमितिवचनात् दशवैकालिकबृहद्वृत्तौ 'हीलन्ति मिच्छं पडिवजमाणा' इत्यादिव्याख्यायां ही लन्तीतिप्रयोगदर्शनाच्च, हीलितः त्वं येन स तं, विशेषणबलाज्जनमिति विशेष्यं गम्यते । तुः पूजाविपर्ययकर्त्तुः फलविपर्ययं द्योतयति । एवोऽवधारणे । दुःखोच्छेदः कदाचन नैवेति । पूर्वस्य धातोस्तिथि ' अवर्णस्येवर्णादिना० । १ । २ । ४ । इत्यतः परत्वात्पूर्वं 'नामिनो गुणोऽक्ङिति | ३ | ४ । ७१ । इति गुणे उपसर्गस्यानिणिवेदोति ' । १ । २ । १९ । इत्यत्र इणूवर्जनात् आलोपाभावे ' ऐदौत्स - न्ध्यक्षरे: ' | १२|१२| इति एकारे, ऐति इतिरूपम् ॥ २ ॥ नाथीकृतत्वया देव !, भवारिर्जीयते क्षणात् । हर्षाद्वीक्षिततुभ्यं च, स्पृहयेन मुक्तिकामिनी ॥३॥ अब ० - अनाथो नाथः क्रियसे स्म 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे च्चि:' । ७ । २ । १२६ । इति चौ 'ईश्च्वाववर्णस्थानव्ययस्य ' | ४ | ३ | १११ । इति ईकारे नाथीकृतः, नाथीकृतस्त्वं येन स तेन, 'त्वमौ प्रत्यय० | २|१|११| इति युष्मदो मान्तावयवस्य त्वादेशे ' लुगस्य. ' |२| १|११३ | इति , • "Aho Shrut Gyanam" अष्टादश · ,


Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 254