Book Title: Jain_Satyaprakash 1954 09
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ : १२] ઋષિ રઘુનાથકા પત્ર [૨૩૫ भूयोपि भूयो भविकैर्भवद्भिः श्रीपूज्यपादैधृतसाधुवादैः । प्रसय सद्योनुचरेनवद्यो देय छदो येन मुहुर्मुदः स्युः ॥ २९ ॥. उपजातिः ॥ धन्यं जनुनिजमवैमि भवादृशो यदसत्पुरुषाः समदृशोपि हि मां प्रसद्य । सौवानुगामि गणनावसरे लघिष्ठं मयाशये स्मृतिपथं वरदा नयन्ति ॥ ३० ॥ वसंत० ॥ भक्तिप्रबो भवच्छीर्षोत्रत्यो वो वन्दते पदौ । सङ्घो रायपुरीयादिः श्रीमद्दर्शनतन्मनाः ॥ ३१ ॥ अनुष्टुप् ॥ कृपारसभरस्फारः सारोदन्तमयश्छदः । इतो वो मन्मनः क्षेत्रे हर्षवर्षा भविष्यति ॥ ३२ ॥ अनुष्टुप् ॥ आनलक्षुधृतिप्रमितेष्टवरे शुभआश्विनमासि दलेथ सिते । दिवसेशतिथौ शनिवारयुते लिखितं खलु पत्रमिदं त्वरया (१८६३) ॥ १ ॥ तोटकम् ॥ श्रीमत्प्रसादप्रासादमध्यमध्यासितेन वै । प्रीतये भवतां भूयाद् भगवत्पदवीभृताम् ॥ २ ॥ अनुष्टुप् ॥ बहुकृत्यविहस्तत्वात् कूटं यद्धृष्टमत्र तत् । शोधनीयं सुधाधाम शुद्धसद्बोधवाद्धिभिः ॥ ३ ॥ अनुष्टुप् ॥ श्रीमदौत्तराहगणीयश्रीभोगी ऋषिदेवीदासकृतप्रणतिततयो वाच्या बहुशः प्राज्ञैः । मनसूरपुराधिवासिसुकर्मकर्मचन्द्रापत्यानां लालाचूहडसिंहादीनां सर्वेषां वंदनावसेया ॥ .. सकलमन्त्रिमुख्यमहामात्र चयनसिंहजितां तदंगजन्मनों दयालुसिंह-हमीरसिंह-कर्पूरसिंहप्रभृतीनां च सहस्रशो वंदना अवधार्याः, शश्वत् श्रीश्रीपूज्यपादानां गुणगणान् प्रति प्रत्यहं. स्मरन्ति ते। अयश्वः क्षितिपतिरप्यत्र समागतोस्ति अन्येपि बहवो जनाः समेताः सन्ति तेन बह्री. लोकागतिः । सर्व दिवसं क्षणमपि पार्वं न मुंचन्ति मुग्धाः। अद्यश्वः षष्ठांगं शृण्वंति श्रावकाः सम्यक् पंचमेषु दिवसेषु तत्पूर्तिभावमुपेष्यति ततः श्रीस्थानांगस्य व्याख्यानं बृहवृत्तिविमर्शपूर्वं करिष्यते मया। श्रीमच्छ्रीपूज्यपादप्रसादबलेन सर्वमनवयं विद्याविनोदं करोमि। छत्राश्च विद्यार्थिनः प्रभूताः पठन्ति तत्र द्विवास्तु शाटशास्त्राभ्यासपराः सन्ति, केचन गणितागमं केचन चिकित्साग्रन्थान् सम्यगधीयते तत्र तत्र भवत्प्रसत्तिरेव सर्वनिर्वाहकरी। भवचरणरज:सेवकजिनादयस्तु शाष्टसूत्रं मुखसात् करोति । तत्रत्याः सर्वेपि शिष्याः सम्यक पठनक्रियाकुशला वो भुवतु* नित्यशः । श्रेयःश्रेणयः सन्तु सदा श्रीः ॥ - ऐषमः पर्युषणापर्वसत्को महामहोत्राभूत् तपोवृद्धिश्च गरीयसी जाता। व्याख्यानादि धर्मकृत्यं चानवद्यं जातम् । तत्र श्रीमत्कृपाकटाक्षविलसितं बीजम् । इति श्रेयः । अस्मादृशेषु शरदिन्दुयशोधना ये कारुण्यनीरनिधयः सुरपादपन्ति । वन्दारुषु प्रतिदिनं सुमुमुक्षुमुख्यमह्या महोदधिगभीरतराः प्रसन्नाः ।। १ ।। पूच्याचार्यश्रीश्री १०८ श्रीश्रीलक्ष्मीचन्द्रजित्कानाम् । उपयातु चरण कमलातिथितां तेषामदर्पताम् ॥ २ ॥ बृहन्नागपुरीयलुङ्कागच्छेयशालिनाम् । श्रीमच्चुरुपुरे पुण्ये पुरन्दरपुरोपमे ।। ३ ।। इत्यलं बहुव्यासन्यासप्रयासेन सतां पुरस्तात् तु तद्विदाम् ॥ * प्रथम लकारस्य प्रथमपुरुषबहुवचनं कर्तरि । भ्रांति निरासायेदं लिखितम् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28