Book Title: Jain Dharm Vikas Book 03 Ank 11 Author(s): Lakshmichand Premchand Shah Publisher: Bhogilal Sankalchand Sheth View full book textPage 3
________________ જનધર્મવિાસ. पुस्त: 3.. लावा , स. १८९६. ११ मा. श्रीमज्जगद्गुरुविजयहीरसूरीश्वरगुणाष्टकम् ॥ ___ले. मुनिहेमेन्द्रसागर प्रांतीज ललित-भद्रिकावृत्तम् विजयहीरकं सूरिपुङ्गवं, भवभयापहं तत्वबोधदमे निखिलदेहिनां शान्तिदायकं, स्मृतिपथं नमे श्रीजगद्गुरुम् । शिवपथार्थिनं सार्थवाहकं, सकलकामदं कर्महारकम् । जिनामताम्बुधौ चञ्चदिन्दुकं, स्मृतिपथं नये श्रीजगद्गुरुम् ॥२॥ तपनतेजसं शान्तभावनं, निकटवर्तिनां तापवारकम् । । करुणयाश्रित कोमलश्रियं, स्मृतिपथं नये श्रीजगद्गुरुम् ॥३॥ अकबराधिपो बोधितः क्षणात्-शमवताऽवता येन देहिनाम् । मुनि गणाचिंतं तं तपस्विनं हृदि विचिन्तये श्रीजगद्गुरुम् ॥४॥ विपदनेकधा दारिताऽऽदराद्-भुवि जना घना येन तारिताः। जगति मारणं वारितं तकं, हृदि विचिन्तये श्रीजगद्गुरुम् ॥५॥ वदनवारिजे यस्य भास्वरे, जनमनोऽलयो लीनतामगुः । सुरभिसंगतास्तं प्रभाविनं, हृदि विचिन्तये श्रीजगद्गुरुम् ॥६॥ कतिबोधिता भूपतिव्रजाः नयपथाश्रिता येन सरिणा। विमलविद्यया तं मुनीश्वरं, हृदि विचिन्तये श्रीजगद्गुरुम् ॥७॥ वितथवादिनां सत्यवादतो-विजितवान् व्रज यो बुधाग्रणीः। तमजितं जगजीवतारकं, हृदि विचिन्तये श्रीजगद्गुरुम् ॥८॥ गुरु गुणाष्टकं हेमवज्रिणा, रचितमद्भुतश्रीप्रदायकम् । पठति यो जनः शान्तमानसो-जननमृत्युतोऽसौ विमुच्यते ॥९॥ ..." -(०)Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28