Book Title: Hriday Pradip
Author(s): Chirantanacharya
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 134
________________ हृदयप्रदीप समाधिसौख्यान्न परं च 'संसारसारं सौख्यं, त्रयमेतदेव ||२९|| याः सिद्धयोऽष्टावपि दुर्लभा ये, रसायनं चाअनधातुवादाः I ध्यानानि मन्त्राश्च समाधियोगा श्चित्ते प्रसन्ने विषवद् भवन्ति ॥३०॥ (इन्द्रवज्रा ) विदन्ति तत्त्वं न यथास्थितं वै, संकल्पचिन्ताविषयाकुला ये 1 ૧૨૩ संसारदुःखैश्च कदर्थितानां, स्वप्नेऽपि तेषां न समाधिसौख्यम् ||३१|| (वसन्ततिलका) श्लोको वरं परमतत्त्वपथप्रकाशी, न ग्रन्थकोटिपठनं जनरञ्जनाय | संजीवनीति वरमौषधमेकमेव, व्यर्थ श्रमप्रजननो न तु मूलभारः ||३२|| (उपजाति) विषयादिभोगे, तावत्सुखेच्छा यावन्मनःस्वास्थ्यसुखं न वेत्ति । लब्धे मनःस्वास्थ्यसुखैकलेशे, त्रैलोक्यराज्येऽपि न तस्य वाञ्छा ।।३३।। 9 न देवराजस्य न चक्रवर्तिनरागयुतस्य मन्ये । मुनेः सदाऽऽत्म स्तद्वै सुखं यद्वीतरागस्य निष्ठस्य चित्ते स्थिरतां प्रयाति ||३४||

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154