Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'श्री हीरसुन्दर' महाकाव्यम् हील० गोचरां करोमीति गोचरयामीति । 'जिङित्करणे' इति ञिः । प्रणमामीत्यर्थः ॥२॥ हीसुं० 'यच्चक्षुषा 'मातृमुखोऽप्यशेषविशेषविशेखरतानुषङ्गी ।
"गुरुं सुराणाम'धरीकरोति भवन्तु ते मे' गुरवः प्रसन्नाः ॥३॥ (१) यत्सौम्यनयननिरीक्षणात् । (२) मूर्योऽपि (३) निखिलविशेषज्ञोत्तंसभावसङ्गी ।
(४) बृहस्पतिम् (५) पराजयति ॥३॥ हील० ते गुरवः प्रसत्तिभाजो भवन्तु । यदृष्टिपाते तु जडोऽपि अशेषविशेषविदां शेखरतां प्राप्तः सन्बृहस्पति
हीनीकरोति ।।३।।* हीसु० कवित्व निष्कं 'कषितुं कवीनां येषां मनीषा कषपट्टिकेव ।।
सन्तः प्रसन्ना मयि सन्तु "शुद्धाशयाः प्रवाहा इव जाह्नवीयाः ॥४॥ (१) सुवर्णम् । (२) सम्यक्परीक्षितुम् । (३) मतिः (४) स्वर्णपरीक्षणपाषाणशिलेव ।
(५) निर्मलचित्तमध्याश्च । (६) गङ्गासम्बन्धिनः ॥४॥ हील० काव्यनिष्कं सुवर्णं परीक्षितुं येषां मतिः कषपट्टिकास्ति ते सन्त: शुद्धाशयाः शुद्धाभिप्रायाः निर्मलमध्या
गङ्गाप्रवाहा इव मयि भवन्तु ॥४॥ .. हीसुं० अमन्दगन्धैरिव गन्धसारो दिशो यशोभिस्सुरभीकरोति ।
"वृत्तं व्रतीन्द्रस्य तनोमि तस्य "कुरान्ववायाम्बरपद्मबन्धोः ॥५॥ (१) प्रचुरपरिमलैः । (२) चन्दनतरुः । (३) वासयति । ( ४) काव्यम् । (५) सूरीश्वरस्य ।
(६) करोमि । (७) कुंरासाधुवंशाकाशभास्करस्य ॥५॥ हील० अमन्दबहुलैर्गन्धैश्चन्दनद्रुमो दिशः सुरभीकरोति तद्वद्यशोभिर्दिशः सुरभयति । तस्य वृत्तं तनोमि ।
करोमीत्यर्थः । "कथिताः करणे तनने ग्रथने चोत्पादने च ये पूर्वम् । ते धातवः स्पृशन्ति प्रायस्तुल्यार्थतामेव ॥१॥" किं च वृत्तनायकाश्चतुर्विधा वर्ण्यन्ते । धीरोदात्ताः, धीरोद्धताः, धीरललिताः, धीरप्रशान्ताश्चात्र
धीरप्रशान्तत्वेन वृत्तकरणं युक्तमित्यर्थः ॥५॥ हीसुं० 'पारे गिरां वृत्तमिदं क्व "सूरेस्तनुप्रकाशा क्व च शेमुषी मे ।
"प्रक्रम्य मोहादहमङ्गलीस्त प्रमातुमीहे चरणं मुरारेः ॥६॥ (१) पारे गिराम् वाचामगोचरं वक्तुमशक्यमित्यर्थः । (२) चरितम् । (३) कुत्र । (४) स्वल्पविषया मतिः । (५) प्रारभ्य। (६) अज्ञानात् । (७) तत्-तस्मात्कारणात् ।
★ एतच्चिह्नाङ्किताः श्लोका हीलप्रतौ हीमुवदृश्यन्ते । 1. श्रीगुरवः हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 350