Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रथमः सर्गः
३
(८) विष्णोः पदम् - गगनम् । (९) प्रमातुमिच्छुरस्मि अङ्गुलीभिर्व्योमप्रमाणं कर्तुमना वर्त्ते
॥६॥
हील० गिरां पारे वाचामगोचरमिदं वृत्तं क्व, मे स्वल्पा बुद्धिः क्व । तत्तस्मात्कारणादहमङ्गुलीः प्रारभ्य विष्णुपदं मातुमिच्छामि । कश्चिदनन्तं नभः स्वाङ्गुलीर्मण्डयित्वा प्रमातुमारभते, न पुनः प्रभवति, तदज्ञानादेव ||६||
हीसुं० 'यो वालुका हैमवतीप्रतीरे प्रमाति संख्याति च ' विप्लुषोऽब्धेः ६ । तारा: पुन: "पारयति प्रमातुं गुणान्ग' णेन्दोर्गणयेन्न सोऽपि ॥७॥
( १ ) यः पुमान् । ( २ ) गङ्गातटे । (३) सिकताकणान् । ( ४ ) प्रमाणीकरोति : (५) बिन्दून् । ( ६ ) समुद्रस्य । (७) समर्थीभवति । ( ८ ) गच्छनायकस्य । (९) इयत्तावच्छिन्नसंख्यागोचरीकुर्यात् ॥७॥
हील० यः गङ्गातटे वालुकाः प्रमाति । अब्धेर्जलबिन्दून् उत च ताराः सङ्ख्याति । सोऽपि सूरेर्गुणान्न गणयेत्
॥७॥
हीसुं० वृत्तं विभोर्भाषितुम' प्रभुर्यज्जम्भारिसूरिस्तदहं ५ ६ किमीशे ।
यः शृङ्गिशृङ्गाग्रगतैर्दुरापः किं भूमिगस्तं विधुमाददीत ॥८॥
(१) सूरीन्द्रस्य । (२) वक्तुम् । (३) असमर्थः । ( ४ ) बृहस्पतिः । ( ५ ) तच्चरितं भाषितुम् । ( ६ ) कथमहमीशीभवामि । ( ७ ) गिरिशिखरोपरिगतैः । (८) दुष्प्राप्य । ( ९ ). पृथ्वीस्थ: । (१०) गृह्णीयात् ॥८॥
हील. विभोर्हीरविजयसूरीश्वरस्य यद्वृत्तं वक्तुं बृहस्पतिरसमर्थः तर्हि तद्वृत्तं वक्तुं अहं कथमीशे-समर्थीभवामि । अपि तु न । उक्तमर्थमर्थान्तरेण द्रढयति गृहणीयात् ॥८॥
यश्चन्द्रः शैलशिखरस्थैर्दुःप्रा (दुष्प्रा) प: तं भूचरः कथं
-
हीसुं० 'प्रभोः `प्रभावादथवारे कथं न प्रभुर्भवामि प्रविधातुमेतत् । ६स्वस्सत्प्रसादात्त्रिदशाचलस्य 'शिखासु खेलायति किं न खञ्जः ॥९॥
इति पीठपद्धतिः ॥
( १ ) सूरि: (रे: ) । ( २ ) माहात्म्यात् । ( ३ ) अथवेति स्मरणगर्भे पक्षान्तरे वा । ( ४ ) कर्त्तुम् । (५) एतच्चरितम् । (६) देवताप्रसत्त्याः । (७) मेरो: ( ८ ) चूलासु । ( ९ ) क्रीडति । (१०) चरणविकलः ॥ ९ ॥
ही तर्हि कथं करिष्यते । तत्सामर्थ्यमाह - प्रभो० अहं प्रभुप्रभावात्क्षमः । स्वः सद्देवस्तदनुग्रहान्मेरुशृङ्गे खञ्जष्कि(ञ्जः किं) न खेलति । अपि तु खेलतीत्यर्थः ॥ ९ ॥
हीसुं० 'सुपर्वभिर्भोगिभिरङ्गिरसंघैर्लीलां स्वयं बिभ्रदिव त्रिलोक्या: । 'प्रेयानिव स्त्रीभिरिहास्ति जम्बूद्वीपोऽब्धिवेलाभिरु 'पास्यमानः ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 350