SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ३ (८) विष्णोः पदम् - गगनम् । (९) प्रमातुमिच्छुरस्मि अङ्गुलीभिर्व्योमप्रमाणं कर्तुमना वर्त्ते ॥६॥ हील० गिरां पारे वाचामगोचरमिदं वृत्तं क्व, मे स्वल्पा बुद्धिः क्व । तत्तस्मात्कारणादहमङ्गुलीः प्रारभ्य विष्णुपदं मातुमिच्छामि । कश्चिदनन्तं नभः स्वाङ्गुलीर्मण्डयित्वा प्रमातुमारभते, न पुनः प्रभवति, तदज्ञानादेव ||६|| हीसुं० 'यो वालुका हैमवतीप्रतीरे प्रमाति संख्याति च ' विप्लुषोऽब्धेः ६ । तारा: पुन: "पारयति प्रमातुं गुणान्ग' णेन्दोर्गणयेन्न सोऽपि ॥७॥ ( १ ) यः पुमान् । ( २ ) गङ्गातटे । (३) सिकताकणान् । ( ४ ) प्रमाणीकरोति : (५) बिन्दून् । ( ६ ) समुद्रस्य । (७) समर्थीभवति । ( ८ ) गच्छनायकस्य । (९) इयत्तावच्छिन्नसंख्यागोचरीकुर्यात् ॥७॥ हील० यः गङ्गातटे वालुकाः प्रमाति । अब्धेर्जलबिन्दून् उत च ताराः सङ्ख्याति । सोऽपि सूरेर्गुणान्न गणयेत् ॥७॥ हीसुं० वृत्तं विभोर्भाषितुम' प्रभुर्यज्जम्भारिसूरिस्तदहं ५ ६ किमीशे । यः शृङ्गिशृङ्गाग्रगतैर्दुरापः किं भूमिगस्तं विधुमाददीत ॥८॥ (१) सूरीन्द्रस्य । (२) वक्तुम् । (३) असमर्थः । ( ४ ) बृहस्पतिः । ( ५ ) तच्चरितं भाषितुम् । ( ६ ) कथमहमीशीभवामि । ( ७ ) गिरिशिखरोपरिगतैः । (८) दुष्प्राप्य । ( ९ ). पृथ्वीस्थ: । (१०) गृह्णीयात् ॥८॥ हील. विभोर्हीरविजयसूरीश्वरस्य यद्वृत्तं वक्तुं बृहस्पतिरसमर्थः तर्हि तद्वृत्तं वक्तुं अहं कथमीशे-समर्थीभवामि । अपि तु न । उक्तमर्थमर्थान्तरेण द्रढयति गृहणीयात् ॥८॥ यश्चन्द्रः शैलशिखरस्थैर्दुःप्रा (दुष्प्रा) प: तं भूचरः कथं - हीसुं० 'प्रभोः `प्रभावादथवारे कथं न प्रभुर्भवामि प्रविधातुमेतत् । ६स्वस्सत्प्रसादात्त्रिदशाचलस्य 'शिखासु खेलायति किं न खञ्जः ॥९॥ इति पीठपद्धतिः ॥ ( १ ) सूरि: (रे: ) । ( २ ) माहात्म्यात् । ( ३ ) अथवेति स्मरणगर्भे पक्षान्तरे वा । ( ४ ) कर्त्तुम् । (५) एतच्चरितम् । (६) देवताप्रसत्त्याः । (७) मेरो: ( ८ ) चूलासु । ( ९ ) क्रीडति । (१०) चरणविकलः ॥ ९ ॥ ही तर्हि कथं करिष्यते । तत्सामर्थ्यमाह - प्रभो० अहं प्रभुप्रभावात्क्षमः । स्वः सद्देवस्तदनुग्रहान्मेरुशृङ्गे खञ्जष्कि(ञ्जः किं) न खेलति । अपि तु खेलतीत्यर्थः ॥ ९ ॥ हीसुं० 'सुपर्वभिर्भोगिभिरङ्गिरसंघैर्लीलां स्वयं बिभ्रदिव त्रिलोक्या: । 'प्रेयानिव स्त्रीभिरिहास्ति जम्बूद्वीपोऽब्धिवेलाभिरु 'पास्यमानः ॥ १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy