SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 'श्री हीरसुन्दर' महाकाव्यम् हील० गोचरां करोमीति गोचरयामीति । 'जिङित्करणे' इति ञिः । प्रणमामीत्यर्थः ॥२॥ हीसुं० 'यच्चक्षुषा 'मातृमुखोऽप्यशेषविशेषविशेखरतानुषङ्गी । "गुरुं सुराणाम'धरीकरोति भवन्तु ते मे' गुरवः प्रसन्नाः ॥३॥ (१) यत्सौम्यनयननिरीक्षणात् । (२) मूर्योऽपि (३) निखिलविशेषज्ञोत्तंसभावसङ्गी । (४) बृहस्पतिम् (५) पराजयति ॥३॥ हील० ते गुरवः प्रसत्तिभाजो भवन्तु । यदृष्टिपाते तु जडोऽपि अशेषविशेषविदां शेखरतां प्राप्तः सन्बृहस्पति हीनीकरोति ।।३।।* हीसु० कवित्व निष्कं 'कषितुं कवीनां येषां मनीषा कषपट्टिकेव ।। सन्तः प्रसन्ना मयि सन्तु "शुद्धाशयाः प्रवाहा इव जाह्नवीयाः ॥४॥ (१) सुवर्णम् । (२) सम्यक्परीक्षितुम् । (३) मतिः (४) स्वर्णपरीक्षणपाषाणशिलेव । (५) निर्मलचित्तमध्याश्च । (६) गङ्गासम्बन्धिनः ॥४॥ हील० काव्यनिष्कं सुवर्णं परीक्षितुं येषां मतिः कषपट्टिकास्ति ते सन्त: शुद्धाशयाः शुद्धाभिप्रायाः निर्मलमध्या गङ्गाप्रवाहा इव मयि भवन्तु ॥४॥ .. हीसुं० अमन्दगन्धैरिव गन्धसारो दिशो यशोभिस्सुरभीकरोति । "वृत्तं व्रतीन्द्रस्य तनोमि तस्य "कुरान्ववायाम्बरपद्मबन्धोः ॥५॥ (१) प्रचुरपरिमलैः । (२) चन्दनतरुः । (३) वासयति । ( ४) काव्यम् । (५) सूरीश्वरस्य । (६) करोमि । (७) कुंरासाधुवंशाकाशभास्करस्य ॥५॥ हील० अमन्दबहुलैर्गन्धैश्चन्दनद्रुमो दिशः सुरभीकरोति तद्वद्यशोभिर्दिशः सुरभयति । तस्य वृत्तं तनोमि । करोमीत्यर्थः । "कथिताः करणे तनने ग्रथने चोत्पादने च ये पूर्वम् । ते धातवः स्पृशन्ति प्रायस्तुल्यार्थतामेव ॥१॥" किं च वृत्तनायकाश्चतुर्विधा वर्ण्यन्ते । धीरोदात्ताः, धीरोद्धताः, धीरललिताः, धीरप्रशान्ताश्चात्र धीरप्रशान्तत्वेन वृत्तकरणं युक्तमित्यर्थः ॥५॥ हीसुं० 'पारे गिरां वृत्तमिदं क्व "सूरेस्तनुप्रकाशा क्व च शेमुषी मे । "प्रक्रम्य मोहादहमङ्गलीस्त प्रमातुमीहे चरणं मुरारेः ॥६॥ (१) पारे गिराम् वाचामगोचरं वक्तुमशक्यमित्यर्थः । (२) चरितम् । (३) कुत्र । (४) स्वल्पविषया मतिः । (५) प्रारभ्य। (६) अज्ञानात् । (७) तत्-तस्मात्कारणात् । ★ एतच्चिह्नाङ्किताः श्लोका हीलप्रतौ हीमुवदृश्यन्ते । 1. श्रीगुरवः हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy