SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ॥ श्री चिन्तामणिपार्श्वनाथाय नमः ॥ पण्डित श्रीदेवविमलगणिविरचितम् 'श्री हीरसुन्दर' महाकाव्यम् सटिप्पणीकम् ॥ हीरसौभाग्यमहाकाव्योपरिलघुवृत्तिसमेतम् ॥ एँ नमः ॥ अथ प्रथमः सर्गः ॥ हीसुं० श्रियं स पार्श्वाधिपतिः प्रदिश्यात् 'सुधाशनाधीशवतंसितांह्निः ॥ जगन्निदिध्यासुरिव त्रिमूर्त्तिर्यत्कीर्तिरासीत्त्रि दशस्त्रवन्ती ॥ १ ॥ श्रीपार्श्वनाथाय नमः ॥ ( १ ) लक्ष्मीं ददातु । (२) देवेन्द्रशेखरितक्रमः । (३) त्रैलोक्यदिदृक्षुः । ( ४ ) गङ्गा ॥ १ ॥ हील० श्रीचिन्तामणिपार्श्वाधिपतये नमः ॥ स्वोपज्ञहीरसौभाग्यकाव्यस्याव्यासशालिनीम् । कुर्वे वृत्तिं विदग्धानां झटित्यर्थावबोधिकाम् ॥ इह हि ग्रन्थारम्भे ग्रन्थकर्त्ता स्वाभिमतार्थसिद्धये शिष्टाचारपरिपालनाय च सकलविघ्नविघातकं विशिष्टेष्टदेवतानमस्कारलक्षणं मङ्गलमाचरति । शिष्यशिक्षायै सूत्रान्तलिवीकरोति । तदेव सूत्रम् - श्रियमिति - सः अद्वैतमहिमा श्रिया चतुस्त्रिंशदतिशयरूपया युक्तः । पार्श्व एवाधिपतिस्त्रिजगदीश्वरः । यद्वा- पार्श्वनामा यक्षाना (णा) मष्टचत्वारिंशत्सहस्राणां नायकः पार्श्वनामा यक्षस्तस्याधिपतिः । लक्ष्मीं प्रदेयादित्याशीः । किंलक्षणः पाश्र्वाऽधिपतिः ? | सुधाममृतमश्नन्तीति, सुधा अमृतमशनं येषां वा । सुधा पीयूषमश्यते एभिरिति सुधाशना देवाः । तेषामधीशैर्वतंसितौ । 'तत्करोति तदाचष्टे' इतीनक्तप्रत्यये 'अवाप्यो' रित्यकारे लुप्ते वतंसिताविति सिद्धौ । अवतंसौ कुर्वन्तीत्यवतंसयन्ति, अवतंस्येते स्मेत्यवतंसितौ । तादृशौ चरणौ यस्य । स कः ? यत्कीर्तिर्निध्यातुमिच्छुरिव गङ्गा आसीत् ॥१॥ हीसुं० प्रीणाति या प्राज्ञदृशश्चकोरीविभावरीवल्लभमण्डलीव । तमस्तिरस्कारकरी सुरीं तां नमस्कृतेर्गोचरयामि वाचम् ॥२॥ Jain Education International ( १ ) आह्लादयति । ( २) चन्द्रबिम्बम् । मण्डलशब्दस्त्रिलिङ्गः । ( ३ ) तमः अज्ञानमन्धकारं च तस्य भेत्रीम् । ( ४ ) नमस्करोमि ( ५ ) भारतीम् ॥२॥ 1. झगित्य हीमु० । 2. भक्तेर्नते० हीमु० For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy