________________
'श्री हीरसुन्दर' महाकाव्यम् (१) देवैः पक्षे शोभनानि पर्युषणा-दीपालिकादिपर्वाणि येषाम् । (२) नागकुमारैः पक्षे भोगो राज्यादिसुखमस्त्येषामिति । (३) जनसाथैः । (४) दधत् । (५) त्रिभुवनस्य । (६) पतिः । (७) पार्थिवः रजत-हिमरत्नमयोऽनादृताभिधानद्वीपाधिदेवावासभूतोत्तर
कुरुवर्तिजम्बूवृक्षेनो( णो)पलक्षितः (७) सेव्यमानः ॥१०॥ हील० सुप० । इह जम्बूद्वीपोऽस्ति । तैस्तैस्त्रिजगत्या लीलां दधत् । अब्धिवेलाभिः संसेव्यो यथा प्रियः
स्त्रीभिनिषेव्यते ॥१०॥ हीसुं० 'नीराजयन्तीष्विव चित्रभानुमादाय दिग्वारविलासिनीषु ।
४संवर्धयन्तीषु “पयःपृषद्भिर्वेलासु कान्तास्विव मुक्तिकाभिः ॥११॥ यं शंभुशैलच्छविरोमगुच्छचन्द्रातपत्रोद्धत वाहिनीकम् । वार्द्धस्तरङ्गा मगधा इवोर्वीधवं स्तुवन्तीव गभीररावैः ॥१२॥ युग्मम् ॥ (१) आरात्रिकं कुर्वतीष्विव । (२) सूर्यो वह्निश्च । (३) दिग्वाराङ्गनासु । (४) वर्धापयन्तीषु । (५) जलकणैः (६) लघुमुक्ताफलैः । (७) कैलाशः । (८) चामरम् । (९) सेनानद्यौ। (१०) बन्दिनः । (११ । १२) युग्मम् ॥ यं जम्बूद्वीपम् । अब्धिकल्लोलाः । स्तुतिकारिण इव स्तुवन्ति । किंभूतो जम्बूद्वीप: ? । कैलासकान्तिरेव, तद्वद्वा उज्ज्वला रोमगुच्छा यस्य । तथा चन्द्रतुल्यं, स एवातपत्रं यस्य । तथोद्धता वाहिन्यः सेना नद्यो यस्य । पश्चात्कर्मधारयः । कासु सतीषु? दिग्वाराङ्गनासु सतीषु । किंभूतासु दिग्वाराङ्गनासु ? नीराजनां कुर्वन्तीति नीराजयन्ति । नीराजयन्तीति नीराजयन्त्यस्तासु । चित्रभानुं वह्नि अर्थात्सूर्य गृहीत्वा । पुनः कासु ? वेलासु । किंभूतासु.?। अवकिरन्तीषु । कैः ? । पयोबिन्दुभिः । यथा
अन्याः कामिन्यः क्षमाकान्तं लाजैर्वर्धापयन्ति तद्वत् ॥११-१२।। हीसुं० चन्द्रार्कचक्रद्वयभृत्प्रभूतक्षेत्रप्रभू रत्ननिधानवार्द्धिः । यः कोऽपि चक्रीव चकास्त्यसंख्यद्वीपावनीपैः स समुपास्यमानः ॥१३॥
। इति जम्बूद्वीपः ॥ (१) क्षेत्राणि भरतादिवर्षाणि कृषिभूमयश्च । (२) मणीनां निधीनां च वाद्धिनामधेया संख्या यत्र, यद्वा रत्नोपलक्षितनिधानानि वाद्धिः सगरचक्रिवचसा सुस्थितसुरानीतसागरो यत्र । (३)
कोऽप्यद्भुतवैभवः । (४) राजभिः ॥१३॥ हील० चन्द्रा० । यः जम्बूद्वीपः चक्रीवासङ्घयैर्दीपावनीपास्तैः संसेव्यः शोभते । चन्द्रार्कयोः चक्ररूपयो
यं बिभर्तीति । अथ प्रचुराणां क्षेत्राणां निधीनां प्रकर्षणोत्पत्तिस्थानं चाथवा मणीनां निधानानां
वार्द्धिः संख्या यत्र ॥१३॥ हीसुं० 'यत्रोल्लसद्गौरिम'तुङ्गिमश्रीझरप्रवृत्तिः स्फुटभद्रशाल: ।
परवीन्दुघण्टाग्रहघर्घरीको विभाति हेम्नशिशखरी करीव ॥१४॥ 1. ०शाली हीमु० । 2. करीव हेम्नः शिखरी विभाति रवीन्दुघण्टाग्रहघर्घरीमान् हीमु० । 3. हीलप्रतौ हीमु० चैते १४१५-१६ श्लोकाः १६,१४,१५, एवं क्रमेण दृश्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org