________________
प्रथमः सर्गः (१) यत्र- जम्बूद्वीपे । (२) गौरः श्वेतपीतयोः श्वेतिम्नः पीतिम्नश्च तुङ्गत्वस्य च शोभा यत्र । (३) निर्झराणां प्रवर्त्तनं यत्र पक्षे झरवत्प्रवृत्तिर्मदप्रवाहो यत्र । (४) भद्रत्वेन भद्रजातित्वेन शोभते पक्षे वनम् । (५) सूर्याचन्द्रमसावेव घंटे तथा ग्रहा उपलक्षणानक्षत्र-तारा एव .
किङ्किण्यो यत्र । (६) मेरुः ॥१४॥ हील. यत्र द्वीपे सुवर्णगिरिविभाति । क इव ? करीव । किंभूतः करी मेरुश्च ? । उल्लसन्ती गौरिम्नः
तुङ्गिम्नः श्रीयंत्र । पुनर्झराणां प्रवर्त्तनं झरवत्प्रवृत्तिर्मदो यत्र अथवा स्फुटं विकसितं भद्रशालाख्यं वनं यत्र । स्फुटं प्रकटं भद्रजातित्वेन शालते शोभते । तथा सूर्याचन्द्रमसौ घण्टे ग्रहा घर्घर्यो यस्मिन्
*॥१६॥ हीसुं० अन्तःस्फुरन्मौक्तिकरत्नराजीविराजिकूल्येशदुकूलभाजः ।
भास्वज्जगत्यर्जुनमेखलाया निशावशाऽहमणिकर्णिकायाः ॥१५॥ 'संध्यारुचीकुङ्कमपङ्किलाङ्कप्राची प्रतीचीक्षितिभृत्कुचायाः । द्वीपश्रियास्तारकतारहारे किनायको राजति रत्नसानुः ॥१६॥ युग्मम् ॥ (१) मध्ये द्योतमानमुक्ताफलमणिश्रेणिशोभनशीलसमुद्र एव वसनवत्याः । (२) कपिशीर्षकवर्जितप्राकारभित्तिः । (३) निशावशश्चन्दः "भूवलयोर्वशीवश" इति नैषधे, रविकुण्डलम ॥१५॥ (१) सन्ध्यारागघुसृणपङ्कयुक्तउदयास्ताद्रिस्तनायाः । (२) "तारो निर्मलमौक्तिके"4 हारे ।
(३) मध्यमणिः । (४) मेरुः ॥१६॥ युग्मम् ॥ हील० यत्र मेरुविराजते । किमुत्प्रेक्ष्यते । द्वीपलक्ष्म्यास्तारका एव तारा निर्मलमौक्तिकानि तेषां हारे
मध्यमणिः । किंभूताया द्वीपश्रियाः ? अन्तर्मध्ये स्फुरतां मौक्तिकानां रत्नानां राज्या श्रेण्या विराजते इत्येवंशीलो यः कुल्येशोऽब्धि स एव दुकूलं भजतीति तस्याः । दीप्यमाना जगती एव सुवर्णमेखला यस्याः । निशा वशा यस्यैतावता चन्द्रसूर्यो कुण्डले यस्याः । संध्याराग एव कुङ्कम तेन पङ्किलौ
व्याप्तावको ययोस्तादृशावुदयास्ताचलौ कुचौ यस्याः ॥१४-१५।। युग्मम् ॥ हीसुं० यत्रार्थिनोऽर्थेशमिव प्रसार्य करान्सुवर्ण विवरीषवः किम् ।
*प्रदक्षिणागोचरतां नयन्ति “ज्योतिर्गणा गैरिकसानुमन्तम् ॥१७॥ इति मेरुः ॥ (१) धनवन्तम् । (२) किरणान् हस्तांश्च । (३) याचितुमिच्छवः । (४) प्रदक्षिणीकुर्वन्ति ।
(५) ग्रहनक्षत्रताराव्रजाः । (६) मेरुः ॥१७॥ हील० यत्रा० । यत्र द्वीपे ग्रहनक्षत्रतारासमूहाः सुमेरुं प्रदक्षिणयन्ति । किमुत्प्रेक्ष्यते । किरणान्प्रसार्य सुवर्ण
वरीतुमिच्छवः । यथाथिनो याचका धनिनं अनुकूलयन्ति ॥१७॥ इति मेरुः ॥
3. आथमणोऽगस्ताचल इति प्रतिपार्श्वे टि० ।
1 ०कण्डलायाः हील०। 2 पूर्व उदयाचल इति प्रतिपाइँ टि०। 4. लमौक्तिके इत्यनेकार्थः हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org