________________
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'सवेशकेशायितकूलिनीशो 'ललामलीलायितसिद्धशैलः ।
द्वीपा'वनीन्दोरिव भालपट्टो यस्मिन् व्यभाद्भारतनाम वर्षम् ॥१८॥ (१) समीपे केशपाशवदाचरितो लवणसमुद्रो यस्य । (२) तिलकलीलावदाचरितः शत्रुञ्जयो
यस्य । (३) द्वीपराजस्य ॥१८॥ हील० सवे०। यस्मिन्द्वीपे भरतक्षेत्रं शोभते स्म । इवोत्प्रेक्ष्यते । द्वीपलक्ष्मीभालपट्टः । किंभूत ?। समीपे
केशसमूह इवाचरितः सरिदीशो यत्र । तिलकशोभया चरितः शत्रुञ्जयो यत्र ॥१८॥ हीसुं० 'पराजितद्वीपततिप्रतीष्टचिरत्नरत्नाद्युपदागणेन ।
द्वीपेन पृथ्वीपतिनेव 'वर्षं व्यधायि धामोपनिधेरिवैतत् ॥१९॥ (१) निर्जितद्वीपावलीभ्यो गृहीतचिरकालोत्पन्नमणिप्रमुखप्राभृतप्रकरण 'प्रतीष्टकामज्वलदस्त्रजकं'६ चिरत्नरत्नाकि(चित )मुच्चित' मिति नैषधे । (२) क्षेत्रं । (३) निक्षेपस्य ॥११।। परा० जम्बूद्वीपेन एतद्भरतक्षेत्रं उपनिधेासस्य धाम गृहं व्यधायि चक्रे । इव यथा पृथ्वीपतिना राज्ञा निक्षेपस्य निकेतनं क्रियते । किंभूतेन द्वीपेन ? । पराजिता द्वीपानां ततिः श्रेणी तस्याः
सकाशात्प्रति(ती)टो गृहीतश्चिरत्नानि चिरकालोत्पन्नानि रत्नानि तदादिरुपदाप्रकरो येन स तेन ॥१९॥ हीसुं० वैताढ्यशैलो 'विपुलां द्विफालां विनिर्मिमीते स्म निजेन यस्य ।
"यमीभ्रमीभङ्गिविभूष्यमाणां पस्त्रैणस्य सीमन्त इव प्रवेणीम् ॥२०॥ (१) भूमीम् । (२) द्विभागाम् । (३) आत्मना । (४) यमुनाजलभ्रमणीरचनया मन्यमानां 'अपि भ्रमीभङ्गिभिरावृताङ्ग' मिति नैषधे, भ्रमीशब्दो दीर्घः । (५) स्त्रीगणस्य । (६) कबरी
॥२०॥ हील० वैता० । वैताढयगिरिभूमिं द्विभागां कृतवान् । केन । निजेनात्मना । किंभूतां विपुलां प्रवेणी च।
यस्या यमुनाया भ्रमणं तस्या भङ्गयो विलासास्ताभिस्तद्वद्वालङ्क्रियमाणाम् । यथा स्त्रीणां समूहस्य कबरी द्विभागां कुरुते । 'केशवेषे सीमन्तः' सिद्धान्तकौमुद्यां शकन्ध्यादिमध्ये पाठात् । अन्यत्र
सीमान्त इत्येव स्यात् । हीसुं० वैताढयशैलेन विभज्यमानावुभौ विभागौ भरतस्य भातः । 'द्वीपावनीपं किमुपेत्य भूत्या जितौ भजन्तौ ‘फणिनाकिलोकौ ॥२१॥
इति भारतम् ॥ (१) विभागीक्रियमाणौ । (२) द्वीपराजम् । (३) आगत्य । (४) सेवमानौ । (१)
पातालस्वर्गौ ॥ हील० वैताढयशैलेन० इति सुगमम् ॥२१॥
1. द्वीपेन्दिराया इव हीमु० । द्वीपेन्दिराया इत्यपि पाठः इति हीलप्रति पार्श्वे टि० 1 2. इति भरतक्षेत्रस्य द्वौ भागौ हील।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org