________________
प्रथमः सर्गः
हीसुं० 'स्वच्छन्दकेलीतरलीभवन्त्याः स्त्रस्तं शिरस्तो भुवि वर्षलक्ष्म्याः ।
किमुत्तरीयं मरुतोत्तरङ्गीकृतं सितं यत्र 'बभस्ति गङ्गा ॥ २२ ॥ इति गङ्गा ।
(१) स्वैरक्रीडया चपलीभवन्त्या 'केलीषु तद्गीतगुणान्निपीये 'ति नैषधे, केलीशब्दः दीर्घः । (२) पतितम् । ( ३ ) मस्तकात् । ( ४ ) वायुना । (५) चञ्चलीकृतम् । (६) भाति ॥२२॥ हील. स्वच्छन्द० । यत्र भरतक्षेत्रे गङ्गा भासते । किमुत्प्रेक्ष्यते । स्वेच्छया क्रीडाभिश्चञ्चलाजायमानायाः । क्षेत्रलक्ष्मीमस्तकात्पतितम् । मरुता तरङ्गयुक्तं कृतं प्रावरणम् ॥२२॥
हीसुं० तद्दक्षिणार्द्धे सुरगेहगर्व्वसर्व्वंकषो गूर्जरनीवृदास्ते ।
श्रियेवरन्तुं पुरुषोत्तमेन 'जगत्कृताकारि विलासवेश्म ॥२३॥
(१) दक्षिणभरते (२) स्वर्गाभिमानसर्वापहारी । ( ३ ) गूर्जरनामा देश: सत्तायामस्त्यास्ते इति । ( ४ ) पुरुषेषु श्रेष्ठेन - नारायणेन च । (५) धात्रा । (६) क्रीडागृहम् ||२३|| हील ० तद्द० । तस्य भरतस्य दक्षिणपार्श्वे । स्वर्गगर्वसर्वापहारी गुर्जर इति नाम्ना नीवृद्देशो वर्तते । इवोत्प्रेक्ष्यते । सृष्टिकर्त्रा विभुना सह रहः क्रीडितुं लक्ष्म्या केलिगृहं कृतम् ॥२३॥
हीसुं० अशेषदेशेषु 'विशेषितश्रीर्यो मञ्जिमानं वहते स्म देशः ।
'आक्रान्तदिक्चक्र इवाखिलेषु 'वसुंधराभर्तृषु ' सार्वभौमः ||२४||
(१) विशेषप्रकारं प्राप्ता श्रीलक्ष्मीः शोभा वा यस्य । (२) मनोहरताम् । ( ३ ) स्वभुजबलविजितदिग्निकरः । ( ४ ) राजसु । (५) चक्रवर्त्ती ॥२४॥
हील. यो गूर्जरमण्डलः । अशेषदेशेषु विशेषयुक्ता श्रीः सम्पच्छोभा वा यस्य स । अत्र समासान्त - विधेरनित्यत्वात्कप्रत्ययाभावः । एतादृशो मञ्जुनो भावं वहते स्म । इव यथा भूपेष्वखिलेषु सार्वभौमः चक्रवर्ती । किंभूतो गूर्जरः सार्वभौमश्च ? । आक्रान्तं महत्वान्महिम्ना वा व्याप्तं चर्तुदिङ्मण्डलं येन
स ||२४||
हीसुं० सुस्वामिभाजो विबुधाभिरामास्सजिष्णवो यत्र पुरः स्फुरन्ति ।
धृता दधानेन दिवाभ्यसूयां येनामरावत्य इवाऽप्रमेयाः ॥ २५ ॥
(१) स्वामी - राजा कार्त्तिकेयश्च । (२) विबुधाः पण्डिता देवाश्च । ( ३ ) जयनशील इन्द्रश्च । ( ४ ) स्वर्गेण । ( ५ ) ईर्ष्याम् । (६) इन्द्रपुर्यः । (७) असंख्याः ॥ २५ ॥
हील० सुस्वा० यत्र देशे पुरः नगर्यः राजन्ति । इवोत्प्रेक्ष्यते । दिवा स्वर्गेन सहेय दधता येन गूर्ज रेणेन्द्रनगर्यो धृताः । किंभूता नगर्यः इन्द्रपुर्यश्च ? | सुशोभनं स्वामिनं राजानं पुरन्दरं स्वामिकार्त्तिकं वा भजन्तीति । विशेषेण बुधैर्विबुधैर्देवैर्वा रम्याः । तथा सह जिष्णुभिर्जयनशीलैर्जिष्णुना शक्रेणं कृष्णेन च वर्त्तन्ते
यास्ताः ||२५|
1. इति गङ्गा । इति भरतक्षेत्रम् हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org