SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० शत्रुञ्जयाद्रेस्तलहट्टिकायां यदार्षभिर्वास यति स्म पूर्वम् । द्विषन्निव क्षोणिभृतां विनीतां यस्मिंस्तदानन्दपुरं समस्ति ॥२६॥ (१) भरतचक्री (२) स्थापयामास । (३) इन्द्रः ॥२६॥ शत्रु० । भरतचक्री यनगरं पूर्वं वासयति स्म । यथा गिरिरिपुर्विनीतां वासितवान् । धनदेनेति शेषः । तत् आनन्दनाम्ना पुरम् । इदानीं बृहन्नगरनाम्ना पुरम् । यस्मिन्गूर्जरमण्डले विभाति ॥२६।। हीसुं० यत्तुङ्गतारङ्गगिरौ 'गिरीशशैलोपमे कोटिशिला समस्ति । स्वयंवरोर्वीव 'शिवाम्बुजाक्षीपाणिग्रहे 'कोटिमुनीश्वराणाम् ॥२७॥ (१) कैलाशसदृशे । (२) सिद्धिवधूविवाहे । (३) कोटिसंख्यानां साधूनाम् ॥२७॥ हील० यतुङ्ग । कैलाशोपमे यस्य देशस्या_लिहे तारङ्गनाम्नि पर्वते कोटिशिला विद्यते । इवोत्प्रेक्ष्यते कोटियतीनां मुक्तिमानिनीविवाहे स्वयंवरमण्डपमेदिनी ॥२७॥ हीसुं० यत्पते 'कल्पितसप्तभूमी 'राजर्षिणाकार्यत जैनगेहः । इवाधिरोढुं "शिवचन्द्रशालां निश्रेणिकारोहण सप्तकाङ्का ॥२८॥ (१) रचिताः सप्तक्षणा भूमयो यत्र । (२) कुमारपालेन । (३) प्रासादः । (४) मुक्तिरूपोपरि गृहम् । (५) सोपानसप्तकमङ्के क्रोडे यस्याः । हील. यत्प०। यस्मिन्पर्वते तारले कुमारपालेन रचितसप्तभूमीक: जैनप्रासादः शिल्पिभिरकार्यत निर्मापितः । ___ इवोत्प्रेक्ष्यते । शिवशिरोगृहं चटितुम् । आरोहणानां सोपानानां सप्तकमङ्के यस्यास्तादृशी अधिरोहिणी कारितेव ॥२८॥ हीसुं० गभीरताधःकृतवार्द्धिनेवे( वो) पदीकृतं दन्तिनमुद्वहन्तम् । राजर्षिरस्मिन्वि जयाङ्गजातं तीर्थाधिपं स्थापयति स्म चैत्ये ॥२९॥ (१) गाम्भीर्यजिनसागरेण । (२) ढौकितम् । (३) गजम् । (४) अजितनाथम् ॥२९॥ हील० गम्भी०। कुमारपालः अस्मिन्तारङ्गचैत्येऽजितनाथं निवेशयामास । किंकुर्वन्तम् । लाञ्छनगजं उद्वहन्तम् । किमुत्प्रेक्ष्यते । गाम्भीर्येण पराभूतेन समुद्रेण ढौकितम् ॥२९॥ हीसुं० चैत्येन चूडामणिनेव 'शीर्षं विभूष्य राजर्षिर'मुष्य शृङ्गम् । सिद्धाचलस्येव सुमङ्गलाभूस्तीर्थत्वमुर्त्यां 'प्रथयाञ्चकार ॥३०॥ इति तारङ्गागरिः ।। (१) मस्तकम् । (२) तारङ्गगिरेः । (३) शत्रुञ्जयस्य । ( ४ )भरतचक्री । (५) विस्तारयामास ॥३०॥ हील० चैत्ये० राजर्षिरमुष्य तारणगिरेस्तीर्थत्वं पृथिव्यां विस्तारयामास । यथा भरतचक्री शत्रुञ्जयस्य 1. गम्भीर० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy