SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः तीर्थत्वं विस्तारयति । किं कृत्वा ? । चैत्येन शृङ्ग विभूष्य । मुकुटेन शीर्ष भूष्यते तथैव ॥३०॥ हीसुं० देशे पुनस्तत्र समस्ति शंखेश्वरोऽन्तिक'स्थायुकनागनाथः । ___ धात्रा धरित्र्यां जगदिष्टसिद्धयै मेरोरिवादाय सुरदुरुप्तः ॥३१॥ (१) तिष्ठतीत्येवंशीलः । (२) धरणेन्द्रः । (३) ब्रह्मणा । (४) भूमौ । (५) ईहितपूरणाय । (६) उत्खाय ॥३१॥ हील० गूर्जरदेशे धरणेन्द्रसेव्यः शोश्वरो जागर्ति । इवोत्प्रेक्ष्यते । मेरोः सकाशात्लात्वा । विधिना । कल्पतरुः प्ररोपितः । किमर्थम् ? जगदिष्टसिद्ध्यै । तात्स्थात्तद्वयपदेश इति न्यायाज्जगज्जनानाम भिलषितपूर्तये ॥३१॥ हीसं० विद्याधरेन्द्रौ 'विनमिर्नमिश्च 'यद्वं( दि)बमभ्यर्चयतः स्म पूर्वम् । स्वर्गे ततोऽपूजि बिडौजसा [य]त् 'स्वधाम्न एव स्पृहयेव सिद्धेः ॥३२॥ (१) ऋषभजिनसेवासन्तुष्टधरणेन्द्रदत्तगौरी-प्रज्ञप्तीप्रमुखविद्या-वैताढ्यदक्षिणोत्तरश्रेणिद्वयैश्वर्यो नमि-विनमिनामानौ खेचरेन्द्रौ । (२) पार्श्वप्रतिमाम् । (३) इन्द्रेण । (४) स्वर्गादेव ॥३२॥ हील० विद्या०। नमिविनमिराजानौ श्रीशद्वेश्वरपार्श्वनाथप्रतिमां पूजयतः स्म । तदनन्तरमिन्द्रेण पूजितम् । ईवोत्प्रेक्ष्यते । स्वर्गादेव, मनुष्यावतारं विनैव वैक्रियशरीरेणैव मुक्तेर्वाञ्छयेव ॥३२॥ हीसुं० तेनाथ मुक्तं 'गिरिनारिशृङ्गेऽधिगम्य माणिक्यमिवामराणाम् । नीत्वात्मधाम्नो विधुपद्मपाणी यदार्चतां पनिर्वृतिमीहमानौ ॥३३॥ (१) काञ्चनबलानकनाम्नि । (२) ज्ञात्वा । (३) चिन्तामणिमिव । (४) चन्द्ररविमण्डले रविः (?) । (५) मुक्तिम् ॥३३॥ हील० तेना०। अथ तेन शक्रेण कियत्कालं गिरिनारिगिरेः काञ्चनबलानकारव्यशृङ्गे यत्बिम्बं मुक्तं सत् चन्द्रार्को चिन्तारत्नमिव प्राप्य पुनरात्मगृहयोरानीय आर्चताम् ॥३३॥ हीसुं० ताभ्यां 'पुनः स्थापितमुज्जयन्ते पार्श्व स्वसर्वस्वमिवा'वसाय । ३आखण्डलः कुण्डलिनां क्रमेण सभाजनायान-यति स्म वेश्म ॥३४॥ (१) शशिसूर्याभ्याम् । (२) ज्ञात्वा । (३) नागेन्द्रः । (४) पूजनाय ॥३४॥ हील० ताभ्यां० । नागेन्द्रः पार्श्वनाथमात्मगृहे अर्चनाय आनयति स्म । किं कृत्वा ? । चन्द्रार्काभ्यां स्थापितं स्वकीयनिधिमिव पार्श्व ज्ञात्वा ॥ ३४॥ हीसुं० गिराथ नेमे अ[ र विन्दनाभिरुपास्य पद्माप्रियमष्टमेन । आनाययत्तेन जिनं तमात्मद्विषज्जयं मूर्तिमिवाश्रयन्तम् ॥३५॥ 3. ततः हीमु० । 2. नयदात्मधाम्नि हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy