________________
१०
'श्री हीरसुन्दर' महाकाव्यम्
( १ ) नारायणः कातन्त्रवार्त्तिकेऽप्युक्तम्, ' अरविन्दनाभि' रित्यादयो माघादिकाव्योक्ताः प्रयोगा: शिष्टैरभ्युपगम्याः । (२) संसेव्य । ( ३ ) धरणेन्द्रं पूर्वव्यावर्णितस्वरूपम् । ( ४ ) जरासन्धजयमिव
॥३५॥
गिरा० । अरविन्दनाभिर्नारायणो नेमिनाथवाचाऽष्टमभक्तेन धरणेन्द्रमाराध्य तेन धरणेन्द्रेन (ण) तं पूर्वव्यावर्णितं पार्श्वजिनमानाययत् । उत्प्रेक्ष्यते । मूर्तिमन्तं स्ववैरिणां विजयमिव ॥३५॥ हीसुं० ततो ज़रा येन यदु ( दू ) द्वहानां न्यवारि वारा स्नपनोद्भवेन ।
* बाणस्य कुष्टं वपुषस्त्विषेव राजीविनीजीवितवल्लभेन ॥३६॥
हिल०
( १ ) यादवानाम् । (२) जलेन । ( ३ ) स्नपनजनितेन । ( ४ ) बाणनाम्नः कवेः । ( ५ ) किरणेन । (६) रविणा ॥ ३६ ॥
हील० ततो० ततोऽत्रागमनानन्तरं येन श्रीपार्श्वदेवेन स्त्रात्रोत्पन्नेन जलेन यदुनन्दनानां जरा निवारिता । यथा कमलिनीपतिना निजकान्त्या बाणकवेः शरीरात्कुष्टरोगो निराकृतस्तद्वत् ||३६||
हीसुं० यत्रा'र्हताध्मायि ३ निजध्वजिन्यास्त्राणाय कम्बुर्भ्रमता समन्तात् । “तत्राच्युतेनारिजयप्रशस्तिरिवात्मजः शंखपुरं न्यधायि ॥३७॥
( १ ) अरिष्टनेमिना । (२) वादितः । (३) स्वसेनायाः । ( ४ ) रक्षणाय । (५) कृष्णेन । (६) वासितम् ॥३७॥
ही ० यत्रा० । यत्र स्थाने श्रीनेमिनाथेन सेनासमन्ताद्भ्रमता सता निजसेनारक्षणाय शङ्खो वादितः तत्र स्थाने विष्णुना शङ्खपुरं वासितम् । उत्प्रेक्ष्यते । निजवैरिणां जयस्य प्रशस्तिलिखिता ||३७|| हीसुं० 'वसुन्धरायामिव वैजयन्तं निर्माप्य चैत्यं सुरगोत्रमित्रम् ।
निवेशयामास सुवर्णबिन्दुरा नन्दसान्द्रोऽत्र जिनेन्द्रबिम्बम् ॥३८॥
(१) स्वर्गे यथा इन्द्रप्रासादस्तथा भूमाविव । ( २ ) इन्द्रगृहम् । (३) मन्दरोत्तुङ्गम् । (४) नारायणः (५) प्रमोदपल्लवितः । ( ६ ) शङ्खपुरे ॥३८॥
हील० वसु० । सुवर्णबिन्दुर्नारायणः अत्र चैत्ये पार्श्वप्रतिमां स्थापितवान् । किं कारयित्वा ? मेरोर्मित्रं सादृश्येन चैत्यं विधापयित्वा । इवोत्प्रेक्ष्यते । पृथिव्याः इन्द्रप्रासाद इव । किंभूतः सुवर्णबिन्दुः । ? प्रमोदमेदुरः ||३८||
हील. स्वकारितेशाचलचारुचैत्ये निवेशितः सज्जनमन्त्रिणा यः ।
स रोपितः स्वःशिखरीव सौधाङ्गणेऽस्य जज्ञेऽखिलसिद्धिदायी ॥३९॥
स्व० । आत्मकारिते कैलाशसुन्दरे चैत्ये सज्जननाम्ना मन्त्रिणा स्थापितम् । शङ्गेश्वरपार्श्वनाथः । अस्य मन्त्रिण एव । सिद्धिं ददातीत्येवंशीलो । जज्ञे जातः । यथा गृहाङ्गणद्वारे केनचित्प्ररोपितसुरतरुस्तस्यैव समस्तवाञ्छितार्थप्रदाता भवति तथैव । 'प्ररोपित' इत्यपि पाठे तात्पर्यार्थः ॥ ३९ ॥ ★ एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org