Book Title: Hinsashtakam
Author(s): Yakini Mahattara, Haribhadrasuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________ - 31 - हिंसाष्टकम् -* HIKARAN 3 * हिंसाष्टकम् परिशिष्टम् - हिंसारहस्यम्। पीडाकर्तृत्वतो देह-व्यापत्त्या दुष्टभावतः / त्रिधा हिंसाऽऽगमे प्रोक्ता, न हीथमपहेतुका / / 41 / / अपवर्गतरोर्बीजं, मुख्याऽहिंसेयमुच्यते / सत्यादीनि व्रतान्यत्र, जायन्ते पल्लवा नवाः / / 45 / / हिंसाया ज्ञानयोगेन, सम्यग्दृष्टेमहात्मनः / तप्तलोहपदन्यास - तुल्याया नानुबन्धनम् / / 47 / / सतामस्याश्च कस्याश्चिद्, यतनाभक्तिशालिनाम् / अनुबन्धो ह्यहिंसाया, जिनपूजादिकर्मणि / / 48 / / हिंसानुबन्धिनी हिंसा, मिथ्यादृष्टेस्तु दुर्मतेः / अज्ञानशक्तियोगेन, तस्याहिंसाऽपि तादृशी / / 49 / / येन स्यान्निह्नवादीनां, दिविषदुर्गतिः क्रमात् / हिंसैव महती तिर्यङ्-नरकादिभवान्तरे / / 50 / / साधूनामप्रमत्तानां, सा चाहिंसानुबन्धिनी / हिंसानुबन्धविच्छेदाद, गुणोत्कर्षों यतस्ततः / / 51 / / मुग्धानामियमज्ञत्वात्, सानुबन्धा न कर्हिचित् / ज्ञानोद्रेकाप्रमादाभ्या-मस्या यदनुबन्धनम् / 52 / / एकस्यामपि हिंसाया-मुक्तं सुमहदन्तरम् / भाववीर्यादिवैचित्र्या - दहिंसायां च तत्तथा / 53 / / सद्यः कालान्तरे चैत-द्विपाकेनापि भिन्नता। प्रतिपक्षान्तरालेन, तथाशक्तिनियोगतः / / 54 / / हिंसाप्युत्तरकालीन-विशिष्टगुणसङ्कमात् / त्यक्ताविध्यनुबन्धत्वा-दहिंसैवातिभक्तितः / / 55 / / इदृग्भङ्गशतोपेताहिंसा यत्रोपवर्ण्यते / सर्वाशपरिशुद्धं त -त्, प्रमाणं जिनशासनम् / / 56 / / - अध्यात्मसारे द्वादशः सम्यक्त्वाधिकारः |

Page Navigation
1 ... 23 24 25