Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown

View full book text
Previous | Next

Page 482
________________ हेम प्रभा ७९ । सौवम् । कालेकण्बाधनार्थं सायमादिग्रहणम् ॥ भर्तुसंध्यादेरन् ॥ ६ । ३ । ८९ ।। कालार्थाच्छेषे । पौषः । ग्रैष्मः । सान्ध्यः । आमावास्यः । एकदेशविकृतत्वादमावस्याशब्दादपि । आमावस्यः । शाश्वतम् । ऋवर्णोवर्णादितिसूत्रे ऽशश्वदिति प्रतिषेधादिकणपि शाश्वतिकम् । अण्ग्रहणं स्वात्यादिभ्य ईय बाधनार्थम् । कालेभ्य इत्येव । स्वातीयम् ॥ संवत्सरार फलपर्वणोः ।। ६ । ३ । ९० ॥ शेषेणू | सांवत्सरं फलं पर्व वा । फलपर्वणोरिति किम् ? । सांवत्सरिकं श्राद्धम || हेमन्ताद्वा तलुक् च ॥। ६ । ३ । ९१ ॥ शेषेण । हैमनम् । हैमन्तम् । हैमन्तिकम् । पूर्वमनम् ॥ प्रावृष एण्यः ।। ६ । ३ । ९२ ।। शेषे प्रावृषेण्यः । एण्ये णकारो निर्निमित्तकः । प्रावृषेण्ययतीति ण्यन्तात् क्विपि प्रावृषेण इति मूर्धन्यार्थः ॥ स्थामाजिनाः ताल्लुप् ।। ६ । ३ । ९३ ॥ शैषिकस्य । अश्वत्थामा । सिंहाजिनः । भवाथस्यैव लुपमिच्छन्त्यन्ये ॥ तत्र कृतलब्धक्रीतसंभूते । ६ । ३ । ९४ ।। यथायोगमणादय एयणादयश्च स्युः । स्रौघ्नः । माथुरः । औत्सः । बाह्यः । वाहीकः । नादेयः । राष्ट्रियः ॥ कुशले ॥ ६ ॥ ३ । ९५ ।। सप्तम्यन्ताद्यथाविहितमणेयणादयः । स्रौघ्नः । नादेयः योगविभाग उत्तरार्थः ॥ पथोऽकः || ६ | ३ | ९६ || सप्तम्यन्तात् कुशले | पथकः ॥ कोऽइमादेः || ६ । ३ । ९७ ॥ सप्तम्यन्तात् कुशले । अश्मकः । अशनिकः ॥ जाते ।। ६ । ३ । ९८ ॥ सप्तम्यन्ताद्यथाविहितमणेणयणादयः । माथुरः । औत्सः । बाह्यः । नादेयः । राष्ट्रियः ॥ पोष्टभद्राज्जातेः ॥ ७ । ४ । १३ || पदोत्तरपदस्य स्वरेष्वादेः स्वरस्य व्णिति तडिते दृद्धिः । प्रोष्ठपादः । भद्रपादो बहुः ॥ प्रावृष इकः ।। ६ । ३ । ९९ ॥ सप्तम्यन्ताज्जाते । प्रावृषिकः ॥ नाम्नि शरदोऽकञ् ।। ६ । ३ । १०० ॥ सप्तम्यन्ताज्जाते । शारदका दर्भाः । नाम्नीति किम् ? । शारदं सस्यम् ॥ सिन्ध्वपकरात्काणौ ॥। ६ । ३ । १०१. सप्तम्यन्ताज्जाते नाम्नि । सिन्धुकः । सैन्धवः । अपकरकः । आपकरः ॥ पूर्वाह्नाऽपराह्नार्द्रामूलप्रदोषावस्करादकः ।। ६ । ३ । १०२ ॥ सप्तम्यन्ताज्जाते नाम्नि । पूर्वाह्णकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः । तद्धि प्रक ७९

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540