Book Title: Hemprabha Vyakaranam
Author(s): Vijaynemsuri
Publisher: Unknown
View full book text
________________
स्य व्याख्याने तत्रभवे च । छन्दस्यः॥ शिक्षादेवाण ॥६।३।१४८ ॥ छन्दसो ग्रन्थार्थात्तस्य व्यख्याने तत्रभवे च । शैक्षः। आर्गवनः । छान्दसः॥ तत आगते ।।६।३ । १४९॥ यथाविहितमणेयणादयः । सौनः। गव्यः । नादेयः । ग्राग्यः । मुख्यापादानग्रहानान्तरीयकापादानान ॥ विद्यायोनिसंबन्धादक ॥६।३।१५०॥ तत आगते । आचार्यकम् । औपाध्यायकम् । पैतामहकम् । मातामहकम् ॥ पितुर्यो वा ॥ ६ । ३ । १५१ ॥ योनिसम्बन्धात्तत आगते । पित्र्यम् । पैतृकम् ॥ शत इकण ॥६।३।१५२ ॥ विद्यायोनिसम्बन्धात्तत आगते । हौतकम् । मातृकम् ॥ आयस्थानात् ॥६।३।१५३ ॥ स्वामिग्राह्यो भागो यत्रोत्पद्यते तदात्तत आगते इकण् । आतरिकम् ॥ शुण्डिकादेरण ॥ ६ । ३ । १५४ ॥ तत आगते । शोण्डिकम् । औदपानम् ॥ गोत्रादकवत् ॥ ६।३।१५५ ॥ तत आगते प्रत्ययः । बैदम् । अङ्कग्रहणेन तस्येदमित्यर्थसामान्य लक्ष्यते । तेनाकमोऽप्यतिदेशः । औपगवकम् ॥ नृहेतुभ्यो रूप्यमयटौवा ॥६।३।१५६ ॥ चैत्ररूप्यम् । चैत्रमयम् । क्षेत्रीयम् । समरूप्यम् सममयम् । समीयम् ॥प्रभवति ।।६।३।१५७ ॥ पञ्चम्यन्तात्मागुपलभ्ये यथाविहितं प्रत्ययाः । हैमवती गङ्गा । अन्ये जायमाने इत्याहुः ॥ वैडूर्यः ॥ ६।३ । १५८ ॥ निपात्यते । वैडूर्यो मणिः॥ त्यदादेमयट् ॥ ६।३।१५९ ॥ ततः प्रभवति । तन्मयम् । भवन्मयी ॥ तस्येदम् ॥ ६।३ । १६० ॥ षष्ठचन्तादिदमित्यर्थे यथाविहितं प्रत्ययाः । औपगवम् । दैत्यम् । कालेयम् । नादेयम् । पारीणः । भानवीयः॥ गोत्रोत्तरपदाद्गोत्रादिवाऽजिलाकात्यहरितकात्यात् ।।६।१।१२ ।। गोत्रप्रत्ययान्तोत्तरपदात् गोत्रप्रत्ययान्तादिव तद्धितः । यथा चारायणीयास्तथा कम्बलचारायणीयाः । अजिहेत्यादि किम् !। यथेह कातीयाः न तया जैहाकाताः । हारितकाताः॥ उक्ष्णो लुक् ।। ७।४। ५६ ॥ अनपत्येऽण्यन्त्यस्वरादेः । औक्षं पदम् । अनपत्य इत्येव । उक्ष्णोऽपत्यमौक्ष्णः ॥ ब्रह्मणः॥७।४।५७॥ अनपत्येऽण्यन्त्यस्वरादेर्लुक् । ब्राझमस्त्रम् ॥ जातौ ॥७॥४५८
PORRORRERASACROREKKRK
it%A4%-545

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540