SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ स्य व्याख्याने तत्रभवे च । छन्दस्यः॥ शिक्षादेवाण ॥६।३।१४८ ॥ छन्दसो ग्रन्थार्थात्तस्य व्यख्याने तत्रभवे च । शैक्षः। आर्गवनः । छान्दसः॥ तत आगते ।।६।३ । १४९॥ यथाविहितमणेयणादयः । सौनः। गव्यः । नादेयः । ग्राग्यः । मुख्यापादानग्रहानान्तरीयकापादानान ॥ विद्यायोनिसंबन्धादक ॥६।३।१५०॥ तत आगते । आचार्यकम् । औपाध्यायकम् । पैतामहकम् । मातामहकम् ॥ पितुर्यो वा ॥ ६ । ३ । १५१ ॥ योनिसम्बन्धात्तत आगते । पित्र्यम् । पैतृकम् ॥ शत इकण ॥६।३।१५२ ॥ विद्यायोनिसम्बन्धात्तत आगते । हौतकम् । मातृकम् ॥ आयस्थानात् ॥६।३।१५३ ॥ स्वामिग्राह्यो भागो यत्रोत्पद्यते तदात्तत आगते इकण् । आतरिकम् ॥ शुण्डिकादेरण ॥ ६ । ३ । १५४ ॥ तत आगते । शोण्डिकम् । औदपानम् ॥ गोत्रादकवत् ॥ ६।३।१५५ ॥ तत आगते प्रत्ययः । बैदम् । अङ्कग्रहणेन तस्येदमित्यर्थसामान्य लक्ष्यते । तेनाकमोऽप्यतिदेशः । औपगवकम् ॥ नृहेतुभ्यो रूप्यमयटौवा ॥६।३।१५६ ॥ चैत्ररूप्यम् । चैत्रमयम् । क्षेत्रीयम् । समरूप्यम् सममयम् । समीयम् ॥प्रभवति ।।६।३।१५७ ॥ पञ्चम्यन्तात्मागुपलभ्ये यथाविहितं प्रत्ययाः । हैमवती गङ्गा । अन्ये जायमाने इत्याहुः ॥ वैडूर्यः ॥ ६।३ । १५८ ॥ निपात्यते । वैडूर्यो मणिः॥ त्यदादेमयट् ॥ ६।३।१५९ ॥ ततः प्रभवति । तन्मयम् । भवन्मयी ॥ तस्येदम् ॥ ६।३ । १६० ॥ षष्ठचन्तादिदमित्यर्थे यथाविहितं प्रत्ययाः । औपगवम् । दैत्यम् । कालेयम् । नादेयम् । पारीणः । भानवीयः॥ गोत्रोत्तरपदाद्गोत्रादिवाऽजिलाकात्यहरितकात्यात् ।।६।१।१२ ।। गोत्रप्रत्ययान्तोत्तरपदात् गोत्रप्रत्ययान्तादिव तद्धितः । यथा चारायणीयास्तथा कम्बलचारायणीयाः । अजिहेत्यादि किम् !। यथेह कातीयाः न तया जैहाकाताः । हारितकाताः॥ उक्ष्णो लुक् ।। ७।४। ५६ ॥ अनपत्येऽण्यन्त्यस्वरादेः । औक्षं पदम् । अनपत्य इत्येव । उक्ष्णोऽपत्यमौक्ष्णः ॥ ब्रह्मणः॥७।४।५७॥ अनपत्येऽण्यन्त्यस्वरादेर्लुक् । ब्राझमस्त्रम् ॥ जातौ ॥७॥४५८ PORRORRERASACROREKKRK it%A4%-545
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy