________________
हेम
प्रभा
७९
। सौवम् । कालेकण्बाधनार्थं सायमादिग्रहणम् ॥ भर्तुसंध्यादेरन् ॥ ६ । ३ । ८९ ।। कालार्थाच्छेषे । पौषः । ग्रैष्मः । सान्ध्यः । आमावास्यः । एकदेशविकृतत्वादमावस्याशब्दादपि । आमावस्यः । शाश्वतम् । ऋवर्णोवर्णादितिसूत्रे ऽशश्वदिति प्रतिषेधादिकणपि शाश्वतिकम् । अण्ग्रहणं स्वात्यादिभ्य ईय बाधनार्थम् । कालेभ्य इत्येव । स्वातीयम् ॥ संवत्सरार फलपर्वणोः ।। ६ । ३ । ९० ॥ शेषेणू | सांवत्सरं फलं पर्व वा । फलपर्वणोरिति किम् ? । सांवत्सरिकं श्राद्धम || हेमन्ताद्वा तलुक् च ॥। ६ । ३ । ९१ ॥ शेषेण । हैमनम् । हैमन्तम् । हैमन्तिकम् । पूर्वमनम् ॥ प्रावृष एण्यः ।। ६ । ३ । ९२ ।। शेषे प्रावृषेण्यः । एण्ये णकारो निर्निमित्तकः । प्रावृषेण्ययतीति ण्यन्तात् क्विपि प्रावृषेण इति मूर्धन्यार्थः ॥ स्थामाजिनाः ताल्लुप् ।। ६ । ३ । ९३ ॥ शैषिकस्य । अश्वत्थामा । सिंहाजिनः । भवाथस्यैव लुपमिच्छन्त्यन्ये ॥ तत्र कृतलब्धक्रीतसंभूते । ६ । ३ । ९४ ।। यथायोगमणादय एयणादयश्च स्युः । स्रौघ्नः । माथुरः । औत्सः । बाह्यः । वाहीकः । नादेयः । राष्ट्रियः ॥ कुशले ॥ ६ ॥ ३ । ९५ ।। सप्तम्यन्ताद्यथाविहितमणेयणादयः । स्रौघ्नः । नादेयः योगविभाग उत्तरार्थः ॥ पथोऽकः || ६ | ३ | ९६ || सप्तम्यन्तात् कुशले | पथकः ॥ कोऽइमादेः || ६ । ३ । ९७ ॥ सप्तम्यन्तात् कुशले । अश्मकः । अशनिकः ॥ जाते ।। ६ । ३ । ९८ ॥ सप्तम्यन्ताद्यथाविहितमणेणयणादयः । माथुरः । औत्सः । बाह्यः । नादेयः । राष्ट्रियः ॥ पोष्टभद्राज्जातेः ॥ ७ । ४ । १३ || पदोत्तरपदस्य स्वरेष्वादेः स्वरस्य व्णिति तडिते दृद्धिः । प्रोष्ठपादः । भद्रपादो बहुः ॥ प्रावृष इकः ।। ६ । ३ । ९९ ॥ सप्तम्यन्ताज्जाते । प्रावृषिकः ॥ नाम्नि शरदोऽकञ् ।। ६ । ३ । १०० ॥ सप्तम्यन्ताज्जाते । शारदका दर्भाः । नाम्नीति किम् ? । शारदं सस्यम् ॥ सिन्ध्वपकरात्काणौ ॥। ६ । ३ । १०१. सप्तम्यन्ताज्जाते नाम्नि । सिन्धुकः । सैन्धवः । अपकरकः । आपकरः ॥ पूर्वाह्नाऽपराह्नार्द्रामूलप्रदोषावस्करादकः ।। ६ । ३ । १०२ ॥ सप्तम्यन्ताज्जाते नाम्नि । पूर्वाह्णकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः ।
तद्धि
प्रक
७९