Book Title: Gyanpramodika
Author(s): Gyanpramod Gani, R S Betai, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 140
________________ वानप्रमोदिकावृत्तिः १११ एतत्काव्यद्वयेनानयोर्वीररसाधिक्यकथनम् । दानवीराः श्रीमदाम्रभविक्रमबलिप्रभृतयो यथा द्वात्रिंशद्रम्भलक्षा भृगुपुरवसतेः सुव्रतस्याहतोऽग्रे कुर्वन् मं[मांगल्यदीपं ससुरनरवरश्रेणिभिः स्तूयमानः । योऽदादर्थिव्रजस्य त्रिजगदधिपतेः सद्गुणोत्कीर्तनायां स श्रीमानाम्रभट्टो जगति विजयते दानशौण्डामयायी ॥५ । अत्र दानवीरत्वं व्यक्तम ।। मुषितोऽसि हरे नूनं भुवनत्रयमात्रलब्धितोषेण । बलिरथितदोऽस्मि यतो न याचितः किञ्चिदप्यधिकम् ।।६ [शू. ति. ३] अत्रातिदानवीरत्वं स्फुटम् । इमं नायकमावेदयति । अस्मिन् सवीरे सर्वैः अलाधनीयः धैर्यगाम्भीर्य प्रमुखर्गुणैरधिगतो ज्ञातो व्याप्तो वा नायकः स्यात् । धीरोद्वतो व्यसनातो, लुब्धः तद्बोधकारकः प्रतिनायको दुर्योधनादिः २ इति वीररसः २ । इतर्हि करुणमभिधत्ते शोकोत्थः करुणो ज्ञेयस्तत्र भूपातरोदने । वैवर्ण्यमोहनिर्वेदप्रलापाथूणि कीर्तयेत् ॥२१॥ शोकात् स्थायिभावादिष्टविरहानीप्सितसंयोगादिविभावरुत्तिष्ठतीति शोकोत्थः करुणाभिधानो रसो ज्ञातव्यः । तत्र तस्मिन् शोके भूपातरोदनदैवोपालम्भप्रभृतीननुभावान् वैवर्ण्यमोहनिर्वेदप्रलापा. श्रुदैन्यचिन्ताग्लानि जडतामृतिव्याध्याभिरव्यान् व्यभिचारिणः कीर्तयेद्वर्ण येत , बुध इति शेषः । यदुक्त शोकात्मा करुणो ज्ञेयः प्रियमृत्योर्धनक्षयात् । तत्रेत्थं नायको देव हतः स्यात् दुःखभाजनम् ॥१ [शु. ति. ३.५] यथा- भर्ता सङ्गर एव मृत्युवसति प्राप्तः ममं बान्धवैः यूनां काममियं दुनोति च मनो वैधव्यभावाद्वधूः । बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा जीवामीति महीपते प्रलपति त्वद्वैरिसीमन्तिनी ॥१ [श. ति.३) भूपातो देवनिन्दा च रोदनं दीननिःस्वनः । शरीरताडनं मोहो वैवयं चात्र जायते ॥ श. ति. ३.६] इत्यनेन शोकात्मनि करणेऽनुभावकथनम् । क्व चाम्भोघेर्जन्म क्व च वपुरिदं कुन्दधवलं क्व चावासस्थानं पुनरहह विष्णोः करतले । क्व नीचानामास्ये परिणतिरियं चम्बनविधा वितीवोच्चः शखः करुणकरुणं रोदित्यनदिनम [ ] सोत्कण्ठं संदितं सकम्पमसक्दध्यातं सबाष्पं चिरं . चक्षु दिक्षु निवेशितं सकरुणं सख्याः ममं जल्पितम् । नागच्छत्युचितेऽपि वासविधौ कान्ते समुद्विग्नया तत्तत्किञ्चिदुदीरितं मृगदृशा नो यत्र वाचां गतिः ॥३॥२१॥ [ ] इति करुणरसः ।। 79. मले-'सुखितोऽसि' इति । 80. अ.शे. २.१८, चतुर्थे चरणे तत्र वर्णयेत' इति पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274