________________
वानप्रमोदिकावृत्तिः
१११
एतत्काव्यद्वयेनानयोर्वीररसाधिक्यकथनम् । दानवीराः श्रीमदाम्रभविक्रमबलिप्रभृतयो यथा
द्वात्रिंशद्रम्भलक्षा भृगुपुरवसतेः सुव्रतस्याहतोऽग्रे कुर्वन् मं[मांगल्यदीपं ससुरनरवरश्रेणिभिः स्तूयमानः । योऽदादर्थिव्रजस्य त्रिजगदधिपतेः सद्गुणोत्कीर्तनायां
स श्रीमानाम्रभट्टो जगति विजयते दानशौण्डामयायी ॥५ । अत्र दानवीरत्वं व्यक्तम ।।
मुषितोऽसि हरे नूनं भुवनत्रयमात्रलब्धितोषेण ।
बलिरथितदोऽस्मि यतो न याचितः किञ्चिदप्यधिकम् ।।६ [शू. ति. ३] अत्रातिदानवीरत्वं स्फुटम् । इमं नायकमावेदयति । अस्मिन् सवीरे सर्वैः अलाधनीयः धैर्यगाम्भीर्य प्रमुखर्गुणैरधिगतो ज्ञातो व्याप्तो वा नायकः स्यात् । धीरोद्वतो व्यसनातो, लुब्धः तद्बोधकारकः प्रतिनायको दुर्योधनादिः २ इति वीररसः २ । इतर्हि करुणमभिधत्ते
शोकोत्थः करुणो ज्ञेयस्तत्र भूपातरोदने ।
वैवर्ण्यमोहनिर्वेदप्रलापाथूणि कीर्तयेत् ॥२१॥ शोकात् स्थायिभावादिष्टविरहानीप्सितसंयोगादिविभावरुत्तिष्ठतीति शोकोत्थः करुणाभिधानो रसो ज्ञातव्यः । तत्र तस्मिन् शोके भूपातरोदनदैवोपालम्भप्रभृतीननुभावान् वैवर्ण्यमोहनिर्वेदप्रलापा. श्रुदैन्यचिन्ताग्लानि जडतामृतिव्याध्याभिरव्यान् व्यभिचारिणः कीर्तयेद्वर्ण येत , बुध इति शेषः । यदुक्त
शोकात्मा करुणो ज्ञेयः प्रियमृत्योर्धनक्षयात् ।
तत्रेत्थं नायको देव हतः स्यात् दुःखभाजनम् ॥१ [शु. ति. ३.५] यथा- भर्ता सङ्गर एव मृत्युवसति प्राप्तः ममं बान्धवैः
यूनां काममियं दुनोति च मनो वैधव्यभावाद्वधूः । बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा जीवामीति महीपते प्रलपति त्वद्वैरिसीमन्तिनी ॥१ [श. ति.३) भूपातो देवनिन्दा च रोदनं दीननिःस्वनः ।
शरीरताडनं मोहो वैवयं चात्र जायते ॥ श. ति. ३.६] इत्यनेन शोकात्मनि करणेऽनुभावकथनम् ।
क्व चाम्भोघेर्जन्म क्व च वपुरिदं कुन्दधवलं क्व चावासस्थानं पुनरहह विष्णोः करतले । क्व नीचानामास्ये परिणतिरियं चम्बनविधा
वितीवोच्चः शखः करुणकरुणं रोदित्यनदिनम [ ] सोत्कण्ठं संदितं सकम्पमसक्दध्यातं सबाष्पं चिरं
. चक्षु दिक्षु निवेशितं सकरुणं सख्याः ममं जल्पितम् । नागच्छत्युचितेऽपि वासविधौ कान्ते समुद्विग्नया
तत्तत्किञ्चिदुदीरितं मृगदृशा नो यत्र वाचां गतिः ॥३॥२१॥ [ ] इति करुणरसः ।। 79. मले-'सुखितोऽसि' इति । 80. अ.शे. २.१८, चतुर्थे चरणे तत्र वर्णयेत' इति पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org