________________
११२
अथ हास्यरसं व्यञ्जयति-
हासमूलः समाख्यातो हास्यनामा रसो बुधैः । चेष्टाङ्गवेषवैचित्र्याद्वाच्यो हास्यस्य सम्भवः ॥ २२४॥
81
हासो मूलं स्थायी यस्य स तथा हास्यनामा रसो बुधैर्विद्वद्भिः समाख्यातो भणितः । एतज्जननं ब्रूते । चेष्टा इतरगतिवचनानुकाराद्याः । अङ्गवेषवैकृत्यं नटनशीर्षजकर्तन गुप्तावयवाविर्भावनादिः । ततो द्वन्द्वः- चेष्टाश्वाङ्ग च वेषश्च चेष्टाङ्गवेष, तस्य वैकृत्यं तथा । तत्र चेष्टा हिताहितप्राप्तिपरिहारार्था स्पन्दनमात्रं वा यथासम्भवं योज्या । अङ्गवैकृत्यं अभिप्रायानुरूपक्रियाविष्करणभृकुटि मुखरागादित्वम् । वेषवैकृत्यं सीमन्तिनीरूपान्तरपरिग्रहवैकृत्यं वा व्याख्येयम् । तस्माद्विभावाद्वास्यरसस्य उद्भवः सम्भवः, वाच्या वक्तव्यः ||२२||
अमुष्यानुभावानावेदयति
ज्ञानप्रमोदगणिनिबद्धा
कपोलाक्षिकृतोल्लासो भिन्नौष्ठः स महात्मनाम् । विदीर्णास्यश्च मध्यानामधमानां स शब्दक्रः ||२३|| "
केन जलेन पूर्यते इति कपोले, कपोले चाक्षिणी च तथा । तत्र कृतः उल्लासो येन सः कपोलाक्षिकृतोल्लासः गल्लस्थलचक्षुः विहितविकासः । उपलक्षणा दोष्ठस्पन्दनानन रागकरतालप्रमुखा अनुभावाः अस्मिंश्च । श्रमचपलतानिद्रास्वप्नग्लानिशङ्काऽसूयाऽवहित्थाख्याः व्यभिचारिणो मन्तव्याः । स हास्यरसस्त्रिविधः - स्मितं १, विहसितं २ अपहसितं ३, चेति । तत्र महात्मनां प्रधानस्त्रीपुंसानां अभिन्नष्ठोऽस्फुटितौष्ठपुटः गण्डस्थलविकासमात्रम् । स्मिङ ईषत् हसने क्तप्रत्यये स्मितं भवेत् ।
ईषद्विकसितैर्गण्डैः कटाक्षै सौष्ठवान्वितैः ।
अलक्षितद्विजद्वारं स्मितमिच्छन्ति सूरयः || १ [ ना शा. ६.६५ ] प्रायः समानं
द्वितीयं च पुनः मध्यमानाम् । विदीर्णं विवृत्तं, आस्यं वक्त्रं येन सः विदीर्णास्यः । किंचिद् दृश्यदशनो नात्युचैर्नात्यल्पहासो विहसितं -
आकुञ्चितकपोलाक्षं सरवनं मधुरं तथा । प्रस्तावोत्थं सास्यरागमाहुर्विहसितं बुधाः || १**
तृतीयमधमानां निकृष्टजनानां सशब्दः सबाष्पलोचनः निष्कारणको धुतरकन्धशाखः स्कन्धे सकरा घातच अपहसितम् । अयमभिप्रायः - हसन्तमन्यं निरीक्ष्यात्मना विभावप्रभृतीनानवलोकयन्नपि मनुओ इसति । यथा -
[अ] लदाडिमरसास्वादः समीपस्थमानववदने सरसार्द्रतां विधते, संक्रमणभवो हास्य इव । कश्चन गाम्भीर्यादहः सन्न विलोक्यते । परं विभावादिसम्बन्धे अन्तर्हासो भवेदेवेत्येदं पर्यम् । तथा चाह
82 अ. शे. २०.१६
81. चोद्भवः - सिंहदेवगणवृत्त ।
83. भ. शे. २०.१७
84. ना. शा. ६.६८ अमेन प्रायः समाम: ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org