________________
ज्ञानप्रमोदिकावृत्तिः हास्यरसाधिकारं सोदाहरणं शृङ्गारतिलककार:
विकृताङ्गवचःकृत्यवेषेभ्यो जायते रसः । हास्योऽपि हासमूलात्मा पात्रत्रयगतो यथा ॥१ [श. ति. ३.१} किकिचद्विकसितैर्गण्डैः किञ्चिद्विस्फारितेक्षणैः । किञ्चिहलक्ष्यद्विजः सोऽयमुत्तमानां भवेद्यथा ।।२।। {शु. ति ३.२) पाणौ कङ्कणमुत्फणः फणिपतिर्ने क्षलत्पावकं । कण्ठः कुण्ठितकालकूट कुटिलो वस्त्रं गजेन्द्राजिनम् । गौरोलोचनलोभनाय सुभगो वेषो वरस्येति मे गण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः ॥११३ [श. ति. ३] मध्यमानां भवत्येष विवृताननपङ्कजः ।। नीचानां निपतद्बाष्पः श्रूयमाणध्वनिर्यथा ।। [श. ति. ३.३] मुग्धे त्वं सुभगेन वेत्सि मदनव्यापारमद्यापि यन् । नूनं ते जलजैषिणाऽयमलिना दष्टो88 न भोऽधरः । सख्येत्थं हसितं वधू प्रति तथा सानन्दमाविर्भवद् वक्रान्तन्नवसी88धुगन्धरसिकैर्भङ्गैर्यथा धावितम् ॥५।२ [श. ति. ३] त्यक्त्वा गुजफलानि मौक्तिकमयी भूषा स्तनेष्वाहितो स्त्रीण कष्टमिदं कृतं सरसिज कर्णे न बर्हिच्छदम् । . इत्थं नाथ तवारिधाम्नि शबरैरालोक्य चित्रस्थिति बाष्पार्टीकृतलोचनैः स्फुटरवं तारैः स्फुट हस्यते ॥६॥३ [श. त. ३] अस्मिन् सखि कराधातनैत्रोल्लासाङ्गवर्तनम ।
नासा कपोलविस्पन्दो मुखरागश्च जायते ॥७ [श. ति. ३.४] सर्वत्रेह हास्यं प्रकटम् ॥२३॥ इति हास्यरसः ४॥ मम्प्रत्यद्भुतरसं वितनुते----
विस्मयात्मादभुतो ज्ञेयः स चासम्भाव्यवस्तुनः ।
दर्शनाच्छ्रवणाद्वापि प्राणीनामुपजायते ॥२४॥ विस्मयश्चित्रमात्मा स्थायी यस्य सः विस्मयात्माऽद्भुतरसो विद्वद्भिरवसेयः । स च दिव्यसुरया. नेन्द्रजालानाविलकर्मसमीहितलब्धिप्रमुखस्यासम्भाव्यस्य दुष्प्रापस्य वस्तुनः पदार्थस्य दर्शनाद्वाऽथवा श्रवणादित्यनेन दर्शनश्रवणरूपविभावादपि भि[भिन्नक्रमे चेतनावदनभृतामुपजायते सम्पद्यते ॥२४॥ 85. मूले - उबलत्पावकं ' इति ।
86. मूले- 'दृष्टो' इति । 87. मूले- 'सख्येवं' इति ।
88. मूले- 'गत' इति 89. मूले- दारैः समं' इति ।
90. अ. शे. २.२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org