SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ११४ ज्ञानप्रमोदगणिनिबद्धा एतस्यानुभावान् व्याजयति तत्र नेत्रविकासः स्यात् पुलकः स्वेदः एव च । निष्पन्दनेत्रता साधुसाधुवाक् गद्गदा च गीः ॥२५॥1 तत्र तस्मिन्नद्भुतरसे नेत्रविकासः स्यात् । पुलको रोमाञ्च, स्वेदः प्रस्वेद एवेति निश्चयेन, च पुनः, निष्पन्दनेत्रता निनिमेषता; साधुसाध्विति वाग्वाणी, गद्गदा अव्यक्ता गोश्चेत्यनुभावाः जायन्ते। लक्षणतो हर्षाश्रुप्रसादवितरणादिमा अपि आवेगजडतामोहहर्षणविस्मयस्मृत्याहूवयाः व्यभिचारिणोऽस्मिन्मन्तव्याः । दमनकतरुशाखालम्बि जम्बीरयुग्मं विकचकमलकोषे दाडिमीबीजपङ्क्तिः । तुहिनकिरणबिम्बे खजरीटप्रचारः त्रितयमिदमपूर्व देव ! दृष्टं मयाऽद्य ॥१ [ ] अत्राद्भुतत्वं स्पष्टम् । यदुक्तं विस्मयात्माऽद्भुतो शेयो रसो रसविचक्षणः । मायेन्द्रजालदिव्यस्त्रीविपिनायुद्भवो यथा ॥२ [श. ति. ३.१६ ] सत्यं त्वया हृता हंस वनितानामियं गतिः । भ्रमन्येतास्तथाऽप्येतदिन्द्रजालमिव प्रिये ॥३ [ शु. ति. ३] इत्यद्भुतम् ।। नराधिप ! तव कीर्तिर्धवलयत्यपि जगन्ति । रक्तीकरोति सुहृदो मलिनयति च वैरिवदनानि ।।४ [ ] गद्गदः साधुवादश्च खेदः पुलकवेपथुः । दृष्टर्निश्चलतारत्वं विकासश्चात्र जायते ॥५।।२५।। | शु. ति. ३.१७ ] इत्यद्भुतरस: ५। भयानकं निरूपयति भयानको भवेद्भीतिप्रकृति धोरवस्तुतः । स च प्रायेण वनितानीचबालेषु शस्यते ॥२६॥ भौतिभयं, प्रकृतिः स्थायिभावतया यस्य सः तथा भयानकनामा रलो जायेत । कस्मात् ? घोरवस्तुतः । राक्षसप्रभृत्यवलोकनविकृतध्वनिश्रवणशून्यसदमारण्यध्वान्ताद्यरूपविभावात् । चः समुच्चये । सः भयानकः प्रायेण; वनिताश्च नीचाश्च बालाश्च तथा तेषु वनितानीचबालेषु प्रमदानीचजनशिशुष, शस्यते ईड्यते, नैसर्गिकस्य तस्य तस्मिन्नेव सद्भावात् । एतत्रितयोदाहरणानि यथा--- प्रणयकलहसंगान्मन्युभाजा निरस्तः प्रकटितचटुकोटिः पादपद्मानतोऽपि । नवजलधरगर्जीतयाऽसौ कयाचित् त्रुटिततरलहारं सस्वजे प्राणनाथः ।।५ [श ति.३] कम्पोपरुद्धसर्वाङ्गगलत्स्वेदाम्बुबिन्दुभिः । त्वदारन्धैर्महीपाल वैरिभिर्वनितायितम् ॥६ [. ति. ३] श्रुत्वा तूर्यनिनादं द्वारे भयचलितललितबाहुलतः । धन्यस्य लगति कण्ठे मुग्धशिशु लिधूसरितः ।।७ [श ति. ३] 91. अ.शे. २०,२६. तत्र चतुर्थे चरणे-'साधुवादास्तथा च गी:', 'साधुवादस्त या मत', 'साधुवादास्तथा मता' इति पाठाः' । 92. अ. शे. २०-२२ तुर्थे चरणे 'शस्यते' इत्यस्य स्थाने 'दृश्यते' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy