________________
ज्ञानप्रमोदिकावृत्तिः तदुक्तं-- भयानको भयस्थायोभावोऽसौ जायते रसः ।
शब्दादिविगतपौढिर्बालस्त्रीनीचनायकः ||८ [श. ति. ३.१२) उत्तमास्तु निर्भयत्वेऽपि गुरुनृपतिप्रभृतिभ्यो भीति प्रकाशयन्तो नितरामुत्तमाः भवेयुः । प्रख्यापिते हि साध्वसे गुरुर्विनयवन्तं वेत्ति पाणिकम्पनादिचेष्टया । न नीचस्वभावमेनं कलयति ।। ३ दरवत् कृतकं रत्यापि गणिकादौ घ:ते, परं तदुक्तौ न किमपि प्रयोजनम् । गुरुभूपालाद्या अपि परप्रसत्तये कृतकं रोषाद्य व्यक्तीकुर्वन्ति ।।२६।। एतस्यानुभावव्यभिचारिणो निवेदयति
दिगालोकास्यशोषाङ्गकम्पगद्गदसम्भ्रमाः।
त्रासवैवर्ण्यमोहाश्च वर्ण्यन्ते विबुधैरिह ॥२७॥" दिश आलोक्यन्तेऽस्मिन्निति दिगालोको हरिदवलोकनम् । शोषणं शाष; अस्यत्यवर्णमास्यं,
अस्यतेऽस्मिन्नित्यमरटीकायामास्यमाननं, तस्य शोषः आस्यशोषः । अनन्त्येकदेशत्वमङ्गानि शरीरावयवरूपाणि पाणिहृदयचरणादीनि । तेषां कम्पोऽङ्गकम्पः, गद्गदः अव्यक्तवचनं, सम्भ्रमः प्रमदविहितोत्सुक्यम् । ततो द्वन्द्वः दिगालोकश्च आस्यशोषश्च, अङ्गकम्पश्च, गद्गदश्च, सम्भ्रमश्च तथा तत्प्रभृतयोऽनुभावाः । च पुनः, सन्त्रासमृतिवैवर्ण्यमोहा व्यभिचारिणोऽत्र विबुधैर्वर्ण्यन्ते व्याख्यायन्ते । तथोक्तमनुभावस्वरूपं --
वेवयं गद्गदत्रासौ हस्तपादादिकम्पनम् ।
स्वेदास्यशोषदिक्प्रेक्षासम्भ्रमश्चात्र जायते ।।९।२७॥ [ श. ति. ३.१३ ] इति भयानकरस. ६ । एतहि रौद्ररसं प्रणिगदति--
क्रोधात्मको भवेद्रौद्रः क्रोधश्चारिपराभवात् ।
भीष्मवृत्तिर्भवेदुग्रः सामर्षस्तत्र नायकः ॥२८॥ क्रोधो मन्युरात्मा स्थायीभावो यस्य म क्रोधासको रौद्राभिधानो रसः स्यात् । च पुनः, क्रोधः जनपदव नेतापहर गजातविद्याजुगुप्सनरोषाधरिपराभवरूपविभावात् प्रादुर्भतो भवेत् । अस्योदाहरणानि
यैः प्राणापहृतिः कृता मम पितुः क्षुद्रेर्मुधा क्षत्रियः रामोऽहं रमणोविहाय बलवान्नि शेषमेषां हठात् । भास्वत्प्रौढ कुठारकोटिघटनाकाण्डत्रुटस्कन्धरा स्त्रोतोऽन्तः श्रुतिविशोणितभरैः कुर्या क्रुधो निवृतिम् ।।१ श. ति. ३] शस्त्रोद्दारितकुम्भिकुम्भविगलद्रक्ताक्तमुक्ताफल: स्फारस्फूजितकान्तिकल्पितबृहत्चचच्चतुष्कार्चितम् । कुद्धोद्भासिनवीरधोरणिरणत् खड्गाप्रमुग्रावह
युद्धं सिद्धवधूगृहीतसुभर्ट जातं तथा दुर्धरम् ॥२ [श ति. ३] 93. कम्पन्ति-व
9 अ. शे २ . २३ इत्यन या सह कारिकपा प्रायः समाना । 9; कापा शे २.१. इ-या या सह समाना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org