________________
११६
दत्वा धैर्यभुजङ्गमूर्ध्नि चरणावुल्लक्ष्य लज्जानदीमङ्गीकृत्य घनान्धकारपटलं तव्या न दृष्टः प्रियः । सन्तापाकुलया तया च परितः पाथोधरे गर्जति क्रोधाकान्तकृतान्तमत्तमहिषभ्रान्त्या दृशौ योजिते || ३ |
J
उदाहरणेषु रौद्रत्वं प्रकम् । तत्र तस्मिन् रौद्रे, भीष्मा भयानका, वृत्तिः व्यापारो यस्य सः भीमवृत्तिः सामर्थः स प्रतिचिकीर्षारूपः । उच समत्राये, उच्यति कुधा समवैति इत्युप्रः । शुद्रादयइति स्क्रू गत्वं च । दारुणकर्म विधायकत्वादुच्छृंखलो नायकः स्यात् ||२८||
अस्यानुभावव्यभिचारिणो निरूपयति-स्वांसाघातस्वरांसास्त्रोत्क्षेपभ्रुकुटयस्तथा ।
अतिजनाक्षेपो दलनं चोपवते ||२९||
अस्मिन् रौद्ररसे अध्यति परं सः अस्यते भारेणांसः, आहननमाघातः, स्त्रश्वासासश्च स्वांसम तस्य तस्मिन्वा घातः स्त्रांसाघातः स्वकीय स्कन्धप्रहारः । शंसनं शंसा, स्वस्य शंसा स्त्रशंसा निजार्थवादः । अस्यतेऽस्त्रमायुधं, अस्यन्ते बाणा अनेनेति वा, अस्त्रं शरासनम् । उत्क्षेपणमुत्क्षेप, तस्योत्क्षेपोऽस्त्रोत्क्षेपः । अवः कुटनं कुटिलीकरणं, भ्रुकुटिः, तदनुद्वन्द्वः । स्वांसाघातश्च स्वशंसा च, अस्त्रोत्क्षेपश्च, भृकुटिश्च स्वांसोघातस्वरांसाऽस्त्रोत्क्षेप भृकुट योऽनुभावाः । उपलक्षणतोऽपरेऽपि चक्षुरागदशना घरग्रहणरक्ता कृष्ट्यादिमाः स्युः । तथा शत्रु लोकाक्षे पोऽरिविनाशनं चो[ चा]नुक्तसमुच्चयार्थे हर्षासूयागर्वात्साह - मदचापल्योपतानषेवे गाभिवानाः व्यभिचारिणः उपवर्ण्यन्ते । यदाह
क्रोधात्मको भवेद्रोद्रः प्रतिशत्रु ममर्षतः ]
रक्षःप्रायो भवेत्तत्र नायकोऽत्युप्रविग्रहः || १ [ शु. ति. ३.७ ] मुखरागायुधोत्क्षेपः स्वेदकण्ठाधरग्रहः । शक्तिशंसापराचा तो भृकुटिश्चात्र जायते ||२|| [. ति. ३.८ ]
इति रौद्ररसः ।
इदानों बीभत्सरसं व्यनक्ति
बीभत्सः स्याज्जुगुप्सातः सोऽहृद्यश्रवणेक्षणात् । निष्ठीवनास्यभङ्गादि स्यादत्र महतां न च ||३०||"
बीभत्साह्वय रसो जुगुप्सालक्षणः स्थायिभावाद्भवेत् । सा जुगुप्सा वान्तित्रगपूर्तिकोटप्रभृत्य सुन्दरपदार्थश्रुतिनिरीक्षण विभावात्प्रादुर्भवति । यदाह सोदाहरणं - जुगुप्साप्रकृतिज्ञेयो बीभत्सोऽहृद्यदर्शनात् ।
श्रवणात्कीर्तनाद्वापि पूत्यादेर्विषयाद्यथा ॥१ [. ति. ३.१४ | लुठत्कृमिकलेवरं स्त्रवदसृग्वशावासितं विकीर्णशबसन्ततिप्रसरदुमगन्धान्वितम् ॥२
भ्रमत्प्रचुरपत्रिकं त्रिकविवृत्तनृत्यक्रियम् । ratnamantri परिबभौ परेताजिरम् ||३ शि. निश
97. अ. शे. २०.२४.
96. अ.शे. २०.२०
ज्ञानप्रमोद गणिनिबद्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org