________________
ज्ञानप्रमोदिकावृत्तिः
यकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः । स्नायुस्यूता बहीरम्याः स्रियश्चर्मप्रसेविकाः ॥४ [ ! क्वचिद्वीणावाचे क्वचिदपि हहाहेति रुदितं क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरामत्तकलहः । क्वचिद्रम्या रामा क्वचिदपि गलकृष्ठिनिवहो
न जाने संसारः किममृतमयः कि विषमयः ॥५ [भर्तृ. वै. श.] अस्मिन् बीभत्से निष्ठीवनं धूत्कृतिः आस्यभको लपनमोटन, ते आदौ यस्य तन्निष्ठीवनास्यभङ्गादिः । आदिशब्देन वपुः सङ्कोचनगढपथोल्लासनासाविकूगनपिधानप्रमुखमप्यनुभावत्वेनावसेयं भवेत् । अपस्मारविषादभयरोगमतिमदोन्मादाख्याः व्यभिचारिणच इमेऽत्र मन्तव्याः । च पुनः, महतां महापुरुषाणां अनुभावव्यभिचारिणो न भवेयुः । यदुक्तमनुभावस्वरूप
नासाप्रच्छादनं वक्त्रकूणनं मात्रसंवृत्तिः ।
निष्ठोवनादि चात्रस्यादुद्वेशाज्जायते रसः ॥३०॥ [शु ति. ३.१५] इति बीभत्सरसः । साम्प्रतं शान्तरसं प्रतिपादयति..
सम्यग्ज्ञानसमुत्थानः शान्तो निःस्पृहनायकः ।
रागद्वेषपरित्यागात् सम्यगज्ञानस्य चोद्भवः ॥३१॥8 भवभीरुत्ववैराग्यासारतादिमयं सम्यगनानम् । ततो विभावात्समुत्थानं समुद्भवो यस्य स तथा तादृशः शान्तनामा रसो भवेत । किंलक्षण:? निःस्पृहो निराकाङ्क्षो नायको यस्य सः निःस्पृहनायकः। 'च' शब्द. स्वगतानेकभेदद्योतकः । एतस्मात् रागद्वेषपरिक्षयात् स्थायिनः समत्वरूपादस्य सम्यग. ज्ञानस्य चोद्भवः प्रादुर्भावः स्यात् । अत्र नियनप्रमुखा अनुभावाः श्रुतिस्मृतिमतिप्रभृतयः व्यभि चारिणश्च स्वतो ज्ञातव्याः । यदुक्तं --
सम्यग्ज्ञानोद्भवः शान्त. समत्वात्सर्वजन्तुषु । गतेच्छो नायकस्तत्र तमोरागपरिक्षयात् ॥१ [श ति. ३.१८] धनमहरहदत स्वीयं यथार्थितमर्थिने कृतमरिकुलं नारोशेष स्वखड्गविजाम्भतैः । प्रणयिनि जने रागोद्रिक्त रतिविहिता चिरं
किमपरमतः कर्तव्यं नस्तनावपि नादरः ।।२ [शू, ति. ३] इहानुभावानाह
निरालम्ब मनो यत्र बाढभात्मनि तिष्ठति । सुखे नेच्छा तथा दुःखे नोद्वेगस्तत्र जायते ॥३० [शु ति. ३.१९] विरतः कामभोगेभ्यः स्वशरीरेऽपि निःस्पृहः । संवेगनदनिर्मग्नः सर्वत्र समतां श्रयेत् ।।४ [हे. यो. शा. ७.५) शत्रौ मित्रे तृणे स्त्रैण स्वणे ऽश्मांन मणी मृदि । मोक्षे भवे भविष्यामि निविशेषमतिः कदा ॥५ [हे.यो.शा. ३.१४५]
98. अ. शे. २०.२७.
99. मूले- ऽव्युगो नात्र जायते' इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org