________________
११८
ज्ञानप्रमोदगणिनिबद्धा अमन्दानन्दजनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां रागद्वेषमलक्षयः ॥६ हे. यो शा. ४.५०] प्रणिहन्ति क्षणार्धन साम्यमालम्ब्य कर्म तत् । यन्न हन्याम्नरस्तीव्रतपसा जन्मकोटिभिः ।।७ [हे यो. ज्ञा ४.५१] . भवारण्यं भीमं तनुग्रहमिदं छिद्रबहुलं बली कालचौरो नियतमसिता मोहरजनी । गृहीत्वा ज्ञानासिं तरति फलकं शीलकवचं समाधानं कृत्वा स्थिरतरदृशो जागृतजनाः ।।८ [ ] यदा जो चन्दणेण बाहुं अ लिम्प इ वासिणा वि तच्छेइ । संधुगइ जो य निदइ महरिसिणो तत्थ समभावा ।।९। । पहरिज्जंतो दुज्जोहणेण तह पंडवेहिं धुव्वतो
समसतमित्तभावो दमदंतमहारिसो जयओ ||१० इह शान्तरसो व्यक्त एव ॥३१।। इति शान्तरसः ५ । अधुना वृत्तकर्ता समर्थयति -
दोपैरुज्झितमाश्रितं गुणगणेश्चेतश्चमत्कारिणं नानाऽलङ्कृतिभिः परीतमभितो रोत्या स्फुरन्त्या सताम् । तेस्तैस्तन्मयतां गतं नवरसैराकल्पकालं कवि
स्त्रष्टारो घटयन्तु काव्यपुरु सारस्वतध्यायिनः ॥३२॥ सरस्वती देवताऽस्य तस्य । तस्या अयं वा । 'तस्येदं' इत्यण [हे. व्या ६.३ १६०] । सारस्वतः, तं सारस्वतम् । सरस्वत्यधिष्ठिततया मन्त्रविशेष ध्यायन्तीत्येवंशीलाः सारस्वतध्यायिनः कविस्रष्टारः । कविं परमपण्डितं सृजन्तीति कविस्रष्टारः कविरूपविधातारः । काव्यपुरुषं तद्धर्म्यसाधाद्रचयन्तु निर्मापयन्वित्यन्वयः। किंविशिष्टं काव्य पुरुषम् ? दोषैरनर्थक प्रमुखरुज्झितं परास्तम् । पुनः किंभूतम् ?
औदार्यप्रभृतिभिर्गुणगणराश्रितं समन्वितम् । तथा नानालङक ताभर्ध्वन्यात्मकाभिश्चित्रादिाभरभ्युच्चयरूपजात्युपमाप्रभृतिभिश्च । चेतश्चमकरोतीत्येवंशीलश्चेतश्चमत्कारी । तं मनश्चमत्कृतिविधायकम् । केपाम् ? सतां सत्पुरुषाणाम् । पुनः किलक्षणम् ? स्फुरत्या स्फूर्ति विदधत्या रोत्या गौडीयादिमया ।
लाटी हास्यरसे प्रयोगनिपुणैः रीतिः प्रबन्धैः कृता पाञ्चाली करुणे भयानकरसे शान्ते रसे मागधो । गौडी वीररसे च रौद्रजरसे वत्सोभदेशोद्भवा
बीभत्साद्भुतयोर्विदर्भविषया शृङ्गारभूते रसे ॥१ [ इत्यादि शास्त्रान्तरोक्तलक्षणयाऽभितः सामस्स्येन, पर्येति परीतं परिवेष्ठितम् । पुरुषपक्षे मतां रीत्या सदाचारेण स्वघोचितमार्गेण परीतम् । तस्तैग्रंथमानवविख्यातैः शृङ्गारप्रमुखैनवरसैस्तन्मयताम् । इहाभिव्याप्ती मयद. तेन तदभिव्याप्ततां तद्वाच्यत्वमिति यावद्गगतं प्राप्तम् । कल्पान्तकालमामर्यादोकृत्या कल्पकालं प्रलयावधीत्यर्थः। इह सारस्वताध्यायिन इति ग्रन्थावसानविसर्जनोयावरीकन दोपविधायकम,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org