Book Title: Dharm Sab Kuch Hai Kuchbhi Nahi
Author(s): Tulsi Acharya
Publisher: Jain Shwetambar Terapandhi Sampraday

View full book text
Previous | Next

Page 13
________________ अल्पीयसापि काले न समस्याहेतुभूतानि क्रूरत्वसंग्रहममत्त्वादीनि खमृत्युना म्रियेरन्। प्रागवर्तिनि समये लोका नाधिकं संग्रहादिपरा अभूवन् तत्कारणं तदानी प्रवृत्त संयममाहात्म्यमेव । __ हिंसापरिग्रहादयो जीवननिर्वाहपरिधिमतिक्रम्य सृष्णाक्षेत्रे विहरन्ति तदा आसादयति जन्म सामूहिकी अशान्तिः। तेन धार्मिकाः तेषामियत्तां कुर्यः, कारयेयुरित्यस्ति सर्वतो भद्रःपन्थाः । निर्दिष्टपरिमाणादुपरि हिंसा न कार्या, संग्रहो न कार्यः, मन्ये एतादृश व्यापकप्रचारेण धर्मस्य छत्रच्छायायां जगत्समस्या स्यात् स्वयं मुक्तप्रन्थिः । उपसंहरन्नन्ते संक्षेपेण यदि वच्मि तद् वक्ष्यामीति यत् यदि धर्मस्य आचरणं तत् स विश्वं सुखयितुं सर्वशक्तिमान्, यदि मास्ति तदाचरणं तन्नास्ति स किमपि कर्तुमर्हः । तेन धर्मान्वेषणार्थ प्रयतमानैरात्मनियन्त्रणार्थ प्रयतनीयमिति भवेत् सुफला धर्माराधना। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 11 12 13 14