Book Title: Dharm Sab Kuch Hai Kuchbhi Nahi
Author(s): Tulsi Acharya
Publisher: Jain Shwetambar Terapandhi Sampraday

View full book text
Previous | Next

Page 11
________________ शान्तिरशान्तिश्च उभेऽपि मानवनिर्मिते । अन्तर्जगति वहति सततं शान्तेः स्रोतः। तदपि बाह्यवस्तूनां मोहकाकर्षणेन लुब्धा जनाः तदर्जनाय विहितविविधयना विपुलकलेवरामुदभावयन्न शान्तिम्। जाता स्वरूपविस्मृतिः, निलीनश्च मुखं शान्त्याः । कस्तूरिका मृग इव शान्तिमन्विच्छन्नितस्ततो भ्राम्यति बहिरसौ जनः, किन्तु तेनेति बोध्यम्-शान्तिः स्वयं साध्या स्वयश्च साधनम्। न खलु सा क्वापि मनसो बहिस्तिष्ठति, न च बाय पदार्था अपि तत्साधनम्। जायमानानि इमानि धर्मसम्मेलनानि पुनरपि एतत्तत्त्वं लोकानां हृदयङ्गमीकुर्युरिति सततमभिलपे। तृष्णया कवलितः प्रचुरसंपदा प्रभुरपि न सुखमेधते, सन्तुष्टचेता अकिञ्चनोऽपि सुखं जीवतीति परिज्ञायते शान्तिरस्ति अपरिग्रहे। उक्तश्च भगवता महावीरेण-नास्ति परिग्रहसदृशोऽन्यः पाशः प्रतिबन्धो वा प्राणिनाम्। गृहवासिनः सर्वथा स्युरपरिग्रहवतिन इति दुर्वितर्कम्, तथापि ते जीवन निर्वाहसाधनानि स्वल्पात्स्वल्पतराणि कर्तुं प्रयतेरन्, संग्रहं अनर्थमूलश्च मन्येरन्, तद् बोध्यं, नास्ति विश्वशान्तिदरम्। समस्तेऽपि विश्व स्वाधिकारान् उपयुखानो न सुखं निद्राति मुहूर्तमपि, सर्वभूतेषु आत्मौपम्यं चेतो निदधत् नोद्विजते क्षणमपीति सम्बुध्यते शान्तिरस्ति अहिंसायाम् । अतएव "मित्ती मे सव्व भूएसु, वैरं ममं न केणई" इति भवति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14