Book Title: Be Aprakat Stuti Tika
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ ओगस्ट २०११ नन्दनवनादीनि 'मेरुवणि असीइ' [शाश्वतचैत्यस्तव देवेन्द्रसूरि श्लो. १४] इति वचनात् । गिरयश्च वक्षस्कारादयः 'वक्खारेसु असीइ' [शाश्वत चैत्यस्तवदेवेन्द्रसूरि श्लो. १४] इति वचनात् । तेषु स्थापनार्हन्तो विद्यन्ते । तथा ये व्यन्तराणां पुरेषु 'जोइवणेसु असंख्या' [शाश्वतचैत्यस्तव-देवेन्द्रसूरि श्लो. १] इत्युक्तेः स्थापनाजिनाः सन्ति । तथा ये ऊर्ध्वं-ऊर्ध्वलोके, वैमानिकानांविमानवासिदेवानां निरुपमगृहगाः-असमानविमानस्थिताः स्थापनार्हत्समूहा विद्यन्ते । 'चुलसीलक्ख-सगनवइसहस्स तेवीसु ८४९७०२३ वरिलोए' [शाश्वतचैत्यस्तवदेवेन्द्रसूरि श्लो. १२] इति वचनात् । किंभूताः स्थापनार्हन्तः ? त्रिभुवनतिलकाःत्रिभुवने-विष्टपे तिलका इव शोभाकारित्वात् ये, ते तथा । कृत्स्नं यत्राऽस्ति वस्तु प्रणिगदितमिदं द्रव्यपर्यायरूपं, ज्ञानं स्वान्यप्रकाशि प्रदलितसकलादीनवाचं प्रमाणम् । कर्ता भोक्ता प्रमाता चतसृषु गतिषूत्पत्तिमांश्चित्स्वरूपं, श्रीसिद्धान्तं नितान्तं जिनपतिगदितं तं भजामः स्मरामः ॥३॥ व्याख्या : श्रीसिद्धान्तं-श्रीजिनागमं 'वयम्' इत्यनुक्तोऽप्यस्मत्प्रयोगोऽध्येयः, नितान्तं-अतिशयेन, भजामः-अपूर्वाऽध्ययनेन सेवामहे, शास्त्राध्ययनमेव सेवा । तथा स्मरामः-स्मृतिविषयीकुर्मः, एतेनाऽधीतस्य शास्त्रस्य चिरस्थायित्वं स्मरणेनैव भवतीति ध्वनितम् । किंविशिष्टं जिनसिद्धान्तम् ? जिनपतिगदितं-जिनपतिनासर्वज्ञेन, प्रणिगदितं-अर्थतः प्रणीतम्, सकलज्ञानावरणविलयोत्थाविकलकेवलालोकेन सकललोकालोकादिवस्तुवेत्तृत्वात् सर्वज्ञस्येति, तत्प्रणीतः सिद्धान्तः प्रमाणमेव भवतीति ज्ञापितम्, अथवा जिनाः-श्रुतकेवलिनः, तेषां पति:-स्वामी, सुधर्मा पञ्चमगणधरः,तेनाऽऽत्मागमतः सूत्रतः प्रणीतत्वात् । पुनः किंविशिष्टम् ? चित्स्वरूपं-ज्ञानस्वरूपम् । द्रव्यश्रुतस्योपयोगरूपभावश्रुतकारणत्वात् कारणे कार्योपचारात् उपयोगात्मकत्वं सिद्धान्तस्य सिद्धम् । अथ तच्छब्दयच्छब्दमपेक्षते [ ? ] इति वचनात् । यत्रेति निर्दिशति - यत्र श्रीसिद्धान्ते, कृत्स्नं-समग्रम्, इदं-सर्वतत्त्ववित्प्रत्यक्षम्, द्रव्यपर्यायरूपं तत्र गुणानामाश्रयो द्रव्यम्, 'गुणाणमासओ दव्व'मिति वचनात् [संग्रहशतक श्लो. ३५] गुणः सहभावी धर्मः, यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिरिति, पर्यायश्च क्रमभावी, यथा तत्रैव सुखदुःखादिरिति । द्रव्याणि च पर्यायाश्च, तद्रूपं-तत्स्वभावं तदात्मकमिति यावत् । वस्तु

Loading...

Page Navigation
1 ... 7 8 9 10 11