Book Title: Be Aprakat Stuti Tika
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ ७४ अनुसन्धान-५६ अनन्तधर्मात्मकम्, प्रणिगदितं-प्ररूपितम्, अस्ति-विद्यते । च-पुनः । यत्र श्रीसिद्धान्ते स्वान्यप्रकाशि-स्वं आत्मा, ज्ञानस्य स्वरूपं अन्यः स्वस्मादपरोऽर्थ इति यावत्, तौ प्रकाशते-प्रकटीकरोतीत्येवं शीलः स्वान्यप्रकाशि, स्वपरव्यसायीति भावः । ज्ञानं-प्रमाणम्, प्रकर्षेण संशयाद्यभावस्य भावेन मीयते परिच्छिद्यते वस्तु येन तत् प्रमाणं प्रतिगदितम्, अत्र ज्ञानमिति विशेषणमज्ञानस्य व्यवहारमार्गानवतारिणः सन्मात्रगोचरस्य स्वसमयसिद्धस्य दर्शनस्य सन्निकर्षादेश्चाऽचेतनस्य नैयायिकादिकल्पितस्य प्रामाण्यपराकरणार्थं । तत्र जैनानां मते द्वे प्रमाणे, प्रत्यक्षपरोक्षलक्षणे "यदुक्तम्" । प्रत्यक्षं च परोक्षं च, द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु, प्रमाणविषयस्त्विह ॥१॥ ___ [षड्दर्शन समुच्चय श्लो. २] किंभूतं ज्ञानम् ? प्रदलितसकलादीनवाचं-प्रदलिता:-प्रध्वस्ताः, सकला दीनवाचं-कुवादिप्रथितनित्यानित्यत्वैकान्तवादादिदोषा येन तत् । तथा यत्र श्रीसिद्धान्ते प्रमाता-स्वपरव्यवसितिक्रियासाधकः, आत्मा । कर्ता-शुभाऽशुभकर्मणां मिथ्यात्वाऽविरतिकषाययोगैः कुलाल इव मृद्दण्ड-चक्रवीवरादिभिर्घटस्य कारकः । तथा भोक्ता-स्वकृतकर्मफलास्वादकः । अनेन साङ्ख्यमतमपाकृतम् । तेषां हि मते की प्रकृतिरेव, तस्याः प्रकृतिस्वभावत्वात् । आत्मा पुनः प्रकृतेश्चतुर्विंशतितत्त्वरूपायाः पृथग्भूतः अकर्ता विगुणो भोक्ता नित्यचिदभ्युपेतश्चेति । जैनमते यस्यैव कर्तृत्वं तस्यैव भोक्तृत्वमित्यावेदितम् । तथा चतसृषु गतिषुसुरनरनरकतिर्यग्रूपासु, उत्पत्तिमान्-प्रस्तरिकर्ता(?) विभक्तिपरिणामात् प्रणिगदितः । यदुक्तम् देवो नेरइउत्ति य, कीड पयंगुत्ति माणुसो एसो । रूवस्सी य विरूवो, सुहभागी दुक्खभागी य ॥१॥ राउत्ति य दमगुत्ति य, एस सवागुत्ति एस वेयविऊ । सामी दासो पुज्जो, खलोत्ति अधणो धणवइत्ति ॥२॥ नवि इत्थ कोइ नियमो, सकम्म-विणिविट्ठसरिसकयचिट्ठो । अन्नुन्नरूववेसो, नडुव्व परिअत्तए जीवो ॥३॥ [उपदेशमाळा श्लो. ४५।४६।४७]

Loading...

Page Navigation
1 ... 8 9 10 11