Book Title: Be Aprakat Stuti Tika
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ ऑगस्ट २०११ ७१ गङ्गा समुद्रगामिनी भवतीति छायार्थः ॥३॥ शक्रश्चन्द्ररवी ग्रहाश्च धरणेन्द्रब्रह्मशान्त्यम्बिका, दिक्पालाश्च कपर्दिगोमुखगणाश्चक्रेश्वरी भारती । येऽन्ये ज्ञानतपःक्रियाव्रतविधिश्रीतीर्थयात्रादिषु, श्रीसङ्घ सुतरां चतुर्विधसुरास्ते सन्तु भद्रङ्कराः ॥४॥ व्याख्या : शक्रः-इन्द्रः, चन्द्ररवी-शशिभास्करौ, ग्रहाः-मङ्गलाद्याः, चः समुच्चये, धरणेन्द्रब्रह्मशान्त्यम्बिकाः-धरणेन्द्रश्च भुजगपतिः, ब्रह्मशान्तिश्च अम्बिका च, ताः । तथा दिक्पालाः-दिगीशाः, सोमयमवरुणकुबेराः, च-पुनः, कपर्दि गोमुखगणा:-कपदिश्च-श्रीशत्रुञ्जयाधिष्ठाता, गोमुखश्च गणाश्च-तदनुचराणां समूहाः अभीच्यादयो वा । तथा चक्रेश्वरी भारती - सरस्वती । तथा ये अन्येऽपि शब्दाध्याहारादपरेऽपि चतुर्विधसुराश्चतुर्निकायवासिदेवाः सन्ति ते सङ्के सुतरांअतिशयेन ज्ञानतपःक्रियाव्रतविधिश्रीतीर्थयात्रादिषु-ज्ञानं च-शास्त्राऽधिगमः, तपश्च षष्टाष्टमादि, क्रिया च साधुकरणीयम्, व्रतविधिश्च देशसर्वविरतिविधानम्, श्रीतीर्थयात्रा च शत्रुञ्जयादितीर्थनमस्करणप्रवृत्तिः, ता आदौ येषाम्, जिनशासनोद्योतविधीनाम्, ते तथा तेषु, भद्रङ्करः-कल्याणकारिणः सन्तु-भवन्तु ॥४॥ (२) अहँ नमः द्वीपे जम्ब्वाह्वये ये जितमदनबला केवलालोकभाजो, द्वीपे ये च द्वितीये सुखमयविषये पुष्कराधै तथा ये, भावार्हन्तो जयेयुः समवसरणगाः धर्मरत्नं दिशन्त स्तेभ्यो भूयादजस्त्रं त्रिकरणविहितो मामकीनः प्रणामः ॥१॥ व्याख्या : तेभ्यः-जिनेभ्यः, मामकीन:-ममाऽयं मामकीनः, 'तवकममकावेकवचने' [पाणिनी० ४।३।३] इति अस्मदः खञ् । त्रिकरणविहितः-वाग्मनःकायजनितः, प्रणामः-नमस्कारः, अजस्त्रं-निरन्तरम्, जसु(च)मोक्षणे [धातुपारायण ३/८०] नपूर्वः नजिकपीति र:(?), भूयात्-भवतु । तेभ्य इति यत्तदोर्नित्याऽभिसम्बन्धात् ये जम्ब्वाह्वये द्वीपे-जम्बूद्वीपे, भावार्हन्तः-भावजिनाः, जयेयुः-सर्वोत्कर्षण वर्तेरन्, अतीताऽनागतानामपि भावार्हत्त्वकल्पनयैव वन्द्यत्वम्, एते च साक्षाद् भावार्हन्तस्ततः किं वाच्यम् ? । किंभूताः ? ये जितमदनबलाः-जितं एँ नमः

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11