Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 418
________________ . प्रत्याहतेग्रंथि विभेदनेन म्फुरदियेकोवलमानसानाम् । संसारनेटा प्रतिभाति बालधुलीगृह कोड नसनिभव ॥ ११५ ॥ तत्वं परं ज्योतिरिह ज्ञरूपं वैकल्पिकः सर्व उपप्लवोऽन्यः । एवं च भोगो भवभीगिभीगाऽऽभागम्वरूपः प्रतिभासतेऽत्र ॥११६॥ रम्न प्रभाया उपमोदिताऽत्र मूक्ष्मावबोधस्य समन्ययोऽपि । प्रत्याइतिः मा पुनराचचक्षे समाहृतियोऽर्थत इन्द्रियाणाम् ॥११७॥ अवेद्यमवेद्यपदाद विरुद्ध स्याद वेद्यसंवेद्य पदं स्थिरायाम् । एतत् पुनर्ग्रन्थिविदारणोत्थं रुचिप्रकारं मुनयो वदन्ति ॥११८॥ ततश्च कान्तादशि.संप्रवेशम्ताराप्रभाभं ध्रुवदर्शनं च । चित्तस्य देशे स्थिरबन्धनं यत् तां धारणामत्र वदन्ति मन्तः।।११९॥ स्थिरस्वभावादिह नान्यमुञ्च मीमांसनाया अपि संविकासः : सम्यस्थितः स्यादथधारणायां लोकप्रियो धर्मसुलीनचेताः ॥१२०॥ मायाजलं तत्वत ईभमाणोऽनुद्विग्न पत्याशु यथाऽस्य मध्यात् । भोगान स्वरूपेण तथैव मायाऽम्बुवद विदन् भुक्त उपति मोक्षम् ॥१२॥ न धर्मशक्ति प्रवलाममुष्यां भोगस्य शक्तिः अमते विहन्तुम् दीपापही गन्धवहो ज्वलन्तं दवानलं ने तुमलं शमं किम् ? ॥१२२॥ मीमांसना दीपिकया समाना मोहान्धकारक्षपणेऽत्र भाति । तत्त्वप्रकाशप्रसरेण तेनाऽसमंजसस्याऽपि कुतः प्रचारः ? ॥१२३।। दृष्टिः प्रभाऽद्युतितुल्यबोधा ध्यानकमारा रहिता रुजा च । प्रवर्तते ध्यानसमुद्भवं शं शमप्रधानं स्ववशं गरिष्ठम् ।। १२४ ।। सर्व भवेद अन्यवशं हि दुःखं सर्व भवेद आरमवशं च सौख्यम् । सुखासुखं वस्तुत एतदुक्तं गुणोऽत्र तत्वप्रतिपत्तिरूपः ॥ १२५ ।। या धारणाया विषये च प्रत्ययकतानताऽन्तःकरणस्य नन्मतम् । ध्यानं, समाधिः पुनरेतदेव हि स्वरूपमात्रप्रतिभामनं मतः १२६।।

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440