Book Title: Avanti Sukumal Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवंती অধিনু मनोहरतां गतेषु । रे चित्त केदमुपयासि किमत्र चित्रं ॥ पुण्यं कुरुष्व यदि तेषु तवास्ति वांछा । पुण्यं विना न हि भवंति समीहितार्थाः ॥ २ ॥ पुनः प्रभातं पुनरेव शर्वरी । पुनः शशांकः पुनरुत्थितो रविः॥ कालस्य किं गच्छति पाति जीवितं । तथापि मूढः स्वहितं न बुध्यते ॥ ३ ॥ ग्रामांतरे विहितसंबलकः | प्रयाति । सोऽपि लोक इह रूढिरिति प्रसिद्धा ॥ मूढस्तु दीर्घपरलोकपथप्रयाणे । पाथेयमात्रमपि नो विदधात्यधन्यः ॥ ४ ॥ इत्यादिधमोपदेशं गुरुमुखान्निशम्य ताभ्यां दंपतीभ्यां सम्यक्त्वमूलानि द्वादशश्राद्धव्रतानि स्वीकृतानि. ततस्तया भद्रया श्रेष्टिन्या गुरुभ्यो विज्ञप्तिः कृता, हे भगवन् ! यूयमस्माकमुपरि कृपां विधाय नगरमध्ये समेत्य मदोयोपाश्रये चतुर्मासी कुरुध्वं ? गुरुभिरुक्तं भो श्राविकोत्तमे ! यथावसरं विलोकयिष्यामः. ततः स भद्रः श्रेष्टी स्वपरिवारयुतो गुरुभ्यो वंदनं विधाय नगरमध्ये निजगृहे समाययो. अथ कियदिनानंतरं ते श्रीआर्यसुहस्तिसूरयोऽपि तस्या भद्राश्रेष्टिन्या विज्ञप्त्या पुरोमध्ये समेत्य परिवारयुतास्तस्या एव गृहनिकटे उपाश्रयमध्ये चतुर्मासी स्थिताः. अथान्येयुः प्रदोषसमये प्रतिक्रमणक्रियानंतरं ते श्रीसूरिवरा मधुरया गिराजदरपूर्वकं श्रीनलिनीगुल्माध्ययनपाठं गुणयंतिस्म, तदा नाटक INEERS. For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18