Book Title: Avanti Sukumal Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवंती० नंदा विषादांतो । मरणांता जनिर्धवं ॥ २॥ वज्रकायशरीरागा-महतां यद्यनित्यता ॥ कदलीसारतुल्येषु।। অম্বি का कथा शेषजंतुषु ॥ ३ ॥ उत्पत्तिरत्रास्ति विपत्तिसंयुता । न कोऽप्युपायोऽस्त्यमृतौ शरीरिणां सर्वे. क्षिते चावनि सर्वदावहे । ध्रवे शुचा किं सुकृतं विधीयते ॥४॥रुदता कुत एव सा पुन-र्न शुचा नानुमृतापि लभ्यते ॥ परलोकजुषां स्वकर्मभि-गतयो भिन्नपथा हि देहीनां ॥ ५॥ सदा सदाचारपरायणात्मनां । विवेकधाराशनधोतचेतसां ॥ जिनोदितं पंडितमृत्युमीयुषां । न जातु शोच्यं महतां महीतले ॥ ६ ॥ अर्हद्भक्तिमतां गुरुस्मृतिजुषां क्रोधादिशत्रुद्विषां । शक्त्या पंचनमस्कृति च जपतामाज्ञाविधि। तन्वतां ॥ इत्थं सिद्धिनिबंधनोद्यतधियां पुंसां यशःशालिनां । श्लाघ्यो मृत्युरपि प्रणष्टरजसा पर्यंतकालागतः ॥ ७ ॥ गुरुमुखादित्यायुपदेशं श्रुत्वा शोकं परिहत्य ते सर्वेऽपि गृहमध्ये प्राप्ताः. अथ यत्र स्थाने । सोऽवंतोसुकुमालो देहं त्यक्त्वा स्वर्गे गतस्तत्र स्थाने तस्य मातापितृभ्यां महाफालाभिधो जिनप्रासादः कारितः, तत्र श्चीपार्श्वनाथप्रतिमा ताभ्यां स्थापिता. ततस्तस्य ताः सर्वा अपि प्रिया गुरोः पाश्वे दीक्षा जगृहः. ॥ इति श्रीअवंतीसुकुमालचरित्रं समाप्तं ॥ श्रीरस्तु ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18