Book Title: Atimuktakmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra अतिमुक्त चरित्रं ॥ ३ ॥ www.kobatirth.org श्री गौतमेनोक्तं, ममाचार्याः श्रीवीरजिनेंद्रा अत्र पुरोधाने निवसंति, वयमपि तैः सार्धं तत्रैव वसामः इति श्रुत्वा स बालोऽप्यतिमुक्तः तेन सह श्रीवीरजिनालंकृते पुरोधाने समागतः गौतमयुक्तस्तत्रा - गत्यवति मुक्तको जिनं नत्वा ॥ धर्म श्रुत्वा बुद्धो । गृहमागत्याब्रवीत् पितरौ ॥ १ ॥ हे मातः ! हे पितः ! अद्य मया पुरोद्यानं गतेन श्रीवीरप्रभोर्मुखात् धर्मश्रवणं कृतं. अतोऽहमस्मादतिघोर स्वरूपात् संसारादुद्विग्नोऽस्मि, ते न मम दीक्षाग्रहणार्थमनुमन्येथां मातापितृभ्यां प्रोक्तं, हे वत्स ! स्वया कथमेवमुच्यते ? त्वमेक एवावयोः पुत्रोऽसि राज्यस्यास्य क आधारो भविष्यति ? किं चास्मकं वृद्धत्वे त्वमेवाधारो भविष्यसि अधुना त्वात्रयोरेव दीक्षाग्रहणावसरोऽस्ति त्वं त्वधुना बालोऽसि, भागवती दीक्षा च सुदुष्करा विद्यते तत् श्रुत्वा अतिमुक्तकः प्राह, भोः पितरौ ! किं ज्ञायते ! को वृद्धः ? कश्च लघुः ? संसारे सर्वेषामनित्यत्वमेव संभाव्यते. कः कस्य पुत्रोऽस्ति ? संसारे भ्रमतां जीवानां बहवः संबंधा बहुषु भवेषु जाताः संति परं न कोऽपि कस्यापि शरणं यतः - माया पियरो भाया । भज्जा पुत्ताय मित्त धणनिवहा ॥ न य सरणं संसारे जीवाणं मुत्तु जिण वयणं ॥१॥ यः पिता स हि पुत्रः स्यात् । यः पुत्रः स पिता भवेत् ॥ यः पुत्रः स भवेन्माता । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मूल -11 3 11

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10