Book Title: Atimuktakmuni Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अतिमुक्त चरित्रं Ti॥ ७॥ REX ॥ ७॥ bhabixCRE लिनं वंदितुं समायातः. केवलिनः प्रदक्षिणां विधाय सदीयधर्मदेशनां श्रोतुं च सोऽग्रे समुपाविशत्. सर्वे नरनारीगणा अपि यथास्थानं तत्र समुपविष्टाः. अतिमुक्तकेवलिनापि धर्मदेशना प्रारब्धा. तद्यथाआयुर्वायुचलं सुरेश्वरधनुलोलं बलं यौवनं । विद्यइंडतुलं धनं गिरिनदोकल्लोलवच्चंचलं ॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । तावद्धर्मफलाप्तये जनगणेः कार्यः प्रयत्नः शुभः ॥१॥ यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषो । यावद्रोगगणोऽपि नेह कुरुते स्वांगं जना जर्जरं । स्वीयश्रेयसि तावदेव विदुषा कार्यःप्रयत्नो महान् । संदीप्ते भुवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥२॥ जंतुनामवनं जिनेशनमनं भक्त्यागमाकर्णनं । साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननं ॥ मायाया हननं क्रुधश्च शमन लोभद्रुमो. न्मूलनं । चेतः शोधनमिद्रियार्थदमनं यत्तच्छिवोपायनं ॥३॥ एवंविधां केवलिनो धर्मदेशनां श्रुत्वा प्रतिबुद्धा जितशत्रुराजा सम्यक्त्वमूलद्वादशश्राद्धव्रतानि जग्राह. अन्येऽपि बहवो लोकाः भद्रकभावयुताः सम्यक्त्वं प्रापुः. एवं कियत्कालं विहृत्य सोऽतिमुक्तकेवली प्रांते मोक्षं ययौ. ॥ इति श्रीअतिमुक्तमुनिचरित्रं समाप्तं ॥ श्रीरस्तु ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10