Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अतिमुक्त चरित्रं ॥१॥
॥ श्रीजिनाय नमः ।।
॥ श्री चारित्रविजयगुरुभ्यो नमः ॥ ॥ अथ श्रीअतिमुक्तमुनिचरित्रं प्रारभ्यते ॥
(कर्ता-श्री शुभशीलगुणी ) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज जामनगरवाळा) कृतानेकतमस्कोऽपि । निजं निंदन सुभावतः ॥ ईर्यापथिकया सिद्धो। ह्यतिमुक्तो महामुनिः॥१॥ पेढालाख्ये पुरे महानगरे श्रीविजयाभिधो राजा राज्यं चकार, तस्य सच्छीलशालिनी श्रीमत्यभिधा राज्ञी बभूव. तो द्वावपि दंपती जैनधर्मकुशलावास्तां, दानशीलतपोभावनापूजाप्रभावनाऽमारीघोषणासप्तक्षेत्रीस्वधनवापादिपुण्यकार्य कुरुतःस्म. यतः-स्वल्पश्रीसंयुता येऽपि । दानं कुर्वत्यनेकधा॥ स्वशक्तिं प्रकटीकृत्य । ते धन्या दानिनां मताः ॥१॥ रोगक्लेशमदोन्मादेः । सर्वदुःखपरीषहैः ॥ स्वीकृतं ये न मुंचंति। व्रतं स्युस्ते बुधैः स्तुताः॥२॥ क्रमाद्धर्मकार्याणि कुर्वतोस्तयोरेकः शुभलक्षणोपेतः सुतोऽभूत , तस्य पुत्रस्य ज
ACRORS
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailassagarsuri Gyanmandir
अतिमुक्त
चरित्रं
॥२
॥
॥ २
॥
5-5-ARSAXER
न्मोत्सवं कृत्वा राज्ञा अतिमुक्त इति नाम दत्तं. एवं क्रमेण स बालो वृद्धि प्राप्नुवन्द अष्टवार्षिको जातः. एकदासी समवयस्कैरन्यैः बाले. समं रथ्यायां रममाणोऽभूत् . इतो गाचरचर्याये तत्र विचरंतं श्री गौतमस्वामिनं गणधरेंद्रं दृष्ट्वा सोऽतिमुक्तकुमारो हृष्टः सन् प्रणम्य प्राह, हे भगवन् ! के यूयं ? किमर्थ चात्र विचरथ ? तेरुकं वयं श्रमणाः स्मः, शुद्धाहारलाभार्थं च विहरामः. अतिमुक्तेनोक्तं, भगवन् ! तर्हि मदीयगृहे समागच्छत ? मे माता युष्मभ्यं शुद्धाहारं दास्यति, इत्युक्त्वा तदीयांगुलीलग्नः स गौतमस्वामिनं निजगृहे समानयत्. श्रीमत्यपि भगवंतं श्रीगौतमस्वामिनं समागतं दृष्ट्वाऽतीवहृष्टा शुद्वाहारैः प्रत्यलाभयत. अथ ततो निवृत्य गच्छंतं श्रीगौतमस्वामिनमनुगम्य अतिमुक्त उवाच, भगन्नहं भवादृशो भवितुमिच्छामि, तदा गौतमेनोक्तं, भो अतिमुक्तक ! त्वमद्यापि बालोऽसि, जैनदीक्षा च दुष्करास्ति, अतस्त्वया- व्रतपालनं सुदुष्करं संभाव्यते, यतः-तपःक्रियामनोगुप्ति-विनयादिसुकर्मभिः ॥ चारित्रं दुष्करं
बाल्ये । जायते नात्र संशयः ॥ १॥ तत् श्रुत्वा अतिमुक्तेनोक्तं, भगवन् ! नाहं बालः, नूनमहं महाव्रतहै स्वीकारेण भवादृशो भविष्यामि, अतो मां वदत? यूयं कुत्र वसथ ? यथाहं भवद्भिः सह तत्रागच्छामि.
I
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अतिमुक्त चरित्रं
॥ ३ ॥
www.kobatirth.org
श्री गौतमेनोक्तं, ममाचार्याः श्रीवीरजिनेंद्रा अत्र पुरोधाने निवसंति, वयमपि तैः सार्धं तत्रैव वसामः इति श्रुत्वा स बालोऽप्यतिमुक्तः तेन सह श्रीवीरजिनालंकृते पुरोधाने समागतः गौतमयुक्तस्तत्रा - गत्यवति मुक्तको जिनं नत्वा ॥ धर्म श्रुत्वा बुद्धो । गृहमागत्याब्रवीत् पितरौ ॥ १ ॥ हे मातः ! हे पितः ! अद्य मया पुरोद्यानं गतेन श्रीवीरप्रभोर्मुखात् धर्मश्रवणं कृतं. अतोऽहमस्मादतिघोर स्वरूपात् संसारादुद्विग्नोऽस्मि, ते न मम दीक्षाग्रहणार्थमनुमन्येथां मातापितृभ्यां प्रोक्तं, हे वत्स ! स्वया कथमेवमुच्यते ? त्वमेक एवावयोः पुत्रोऽसि राज्यस्यास्य क आधारो भविष्यति ? किं चास्मकं वृद्धत्वे त्वमेवाधारो भविष्यसि अधुना त्वात्रयोरेव दीक्षाग्रहणावसरोऽस्ति त्वं त्वधुना बालोऽसि, भागवती दीक्षा च सुदुष्करा विद्यते तत् श्रुत्वा अतिमुक्तकः प्राह, भोः पितरौ ! किं ज्ञायते ! को वृद्धः ? कश्च लघुः ? संसारे सर्वेषामनित्यत्वमेव संभाव्यते. कः कस्य पुत्रोऽस्ति ? संसारे भ्रमतां जीवानां बहवः संबंधा बहुषु भवेषु जाताः संति परं न कोऽपि कस्यापि शरणं यतः - माया पियरो भाया । भज्जा पुत्ताय मित्त धणनिवहा ॥ न य सरणं संसारे जीवाणं मुत्तु जिण वयणं ॥१॥ यः पिता स हि पुत्रः स्यात् । यः पुत्रः स पिता भवेत् ॥ यः पुत्रः स भवेन्माता ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मूल
-11 3 11
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अतिमुक्त
चरित्रं
॥ ४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या माता ससुतो भवेत् ॥ २ ॥ एवं भवे भवेऽनेक-संबंधाः कर्मयोगतः ॥ जायंते देहिनां तेन । कः पुत्रः कः पितोच्यते ॥ ३ ॥ किंच-संसारंभि असारे । नत्थि सुहं वाहिवेयणापउरे || जाणंतो इह जीवो । न कुणइ जिणदेसियं धम्मं ॥ ४ ॥ एवं मातापितरावनुज्ञाप्य सोऽतिमुक्तकुमारो महोत्सवपूर्वकं श्रीगौतमस्वामिहस्तेन प्रव्रज्यां जग्राह एवं श्रीगौतमस्वाम्यादिष्टां चारित्रक्रियां कुर्वन हृष्टचित्तःसन् सोऽतिमुक्तमुनिः शुद्धं यमं आराधयतिस्म. अथैकदा गोचरचर्यया कस्मिंश्चिद् ग्रामे भ्रमन् सोऽतिमुक्तको मुनिरेका वृद्धया हसंत्या प्रोक्तः, भो क्षुल्लकमुने! किं त्वया सकाले एव उत्सूरः कृतः ? किं ज्ञात्वा त्वयास्मिन् बाल्यवयस्येव चारित्रं गृहीतं ? एवमपूर्ववाण्या निजहृद्यतीवचमत्कृतः स क्षुल्लकोऽतिमुक्तमुनिः प्राह-यजानामि तन्न जानामि तत् श्रुत्वा सविलक्षं चमत्कृतया तया वृद्धया तदुक्तोत्तरभावार्थमजानंत्या प्राक्तं ? भो क्षुल्लकमुने! त्वया किं प्राकं ? अहं त्वदुक्तवचनतत्वार्थे ज्ञातुमशक्तास्मि तदा स क्षुल्लकोऽपि निजोक्तवचनतत्त्वार्थं जगौ भो वृद्धे ! व्रतग्रहणे सकाले बाल्येऽपि के उत्सूरं कुर्यात् ? यत् जानामि, तन्मरणं कापि वयसि निश्चितं भविष्यतीति, इति मया संसारदुःखमुक्त्यर्थं सकालेऽपि बाल्ये व्रतं गृहीतमस्ति.
For Private and Personal Use Only
मूल
॥ ४ ॥
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrn.org
Acharya Shri Kailassagarsur Gyanmandir
4-
अतिमुक्त चरित्रं
O-SERSXE
-Kaaxe
उत्सूरस्तु सः कालस्तदेव ज्ञायते, यदा ज्ञानं भवति. तत् ज्ञानं तुममाद्यापि प्राप्तं नास्ति, इति मदुक्तवचनतत्त्वार्थो शेयः. तदुत्तरं श्रुत्वा तया वृद्धया चमत्कृतया हृदि चिंतितं, अहो! अनेन क्षुल्लकेनापि मुनिना सत्यमेव प्रोक्तं. इति विचित्य तया श्राविकया तस्यातिमुक्तमुनेः पावें हास्यकृतस्वापराधक्षमायाचनपूर्वक सम्यक्त्वमुलानि द्वादश श्राद्धव्रतानि स्वीकृतानि. अतिमुक्तक्षुल्लकोऽपि शुद्धान्नपानं विहृत्य धर्मशालायां गतः. अथैकदा स क्षुल्लकः कश्चिन्मुनिभिः सार्धं देहचिंता) बहि मो गतः, तत्र वर्षाकालत्वात कानिचिल्लघुपल्बलानि जलापूर्णान्यासन्. तेषु जलपूर्णपल्वलेषु नागरिकवालाः स्वस्वपत्रप्रवहणानि तारयंतःक्रोडयामासुः. एवं क्रीडतस्तान् बालाद दृष्ट्वा सोऽतिमुक्तमुनिवरोऽपि निजबाल्यचापल्यस्वभावतः स्वकीयकाष्टतर्पिणीपात्रं तेषु पल्वलेषु तारयन् तेर्बालैः सह क्रीडां कर्तुं प्रवृत्तः, कथयामास च भो बालाः! पश्यत ? पश्यत! ममापीयं नोर्जले तरतीति. एवं बालैः सह क्रीडंतं तं दृष्ट्वा ते स्थविरमुनयस्तं निवार्य तेन सह पुनरुपाश्रये समाजग्मुः. ततःप्रातरायश्यकं विधाय ते सर्वेऽपि मुनयोऽतिमुक्तकसंयुक्ताः श्रीमहावीरप्रभुपाचे समाययुः, तत्र च प्रभुं प्रदक्षिणीकृत्य प्रणम्य च सर्वे विनयावनभ्रास्तमतिमुक्तक्षुल्लकं पुरस्कृत्य प्रभुं विज्ञपयामासुः,
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अतिमुक्त चरित्रं
भगवन् ! अयमतिमुक्तः शिशुवात दीक्षायै अनहः संभाव्यते, इत्युक्त्वा तेः ह्यस्तनदिनदृष्टं तस्य बालचेष्टितं प्रभोरग्रे निवेदितं. तन्निशम्य केवलज्ञानज्ञातसर्व चराचरस्वरूपेण भगवता प्रोक्तं, भो मुनयः! एतस्य बालस्यापि क्षुल्लकमुनेराशातनां यूयं मा कुरुत ? अधुनेवायं केवलज्ञानमाप्स्यति. तत् श्रुत्वा ते गौतमाद्याः सर्वेऽपि मुनयः विस्मयं प्राप्ताः. इतः सोऽतिक्तमुक्षुल्लकमुनिरपि समवसरणे जगद्गुरोः पुरः शुभवाप्सनया प्रायश्चित्तरूपामीर्यापथिकी प्रतिक्रमन् “दगमट्टी" इति शब्दमुच्चरन् पृथ्वीकायाप्कायिकादिजीवान् क्षामयन् तदैव केवलज्ञानं समवाप. तदा गौतमादिमुनिसमुदायेष्वाश्चर्य प्राप्तेषु देवास्तस्य क्षु. ल्लककेवलिनो महोत्सवं विदधुः. यतः-प्रणिहंति क्षणार्धेन । साम्यमालंब्य कर्म तत् ॥ यन्न हन्यान्नरस्तोत्र-तपसा जन्मकोटिभिः ॥१॥ मन एव मनुष्याणां । कारणं बंधमोक्षयोः॥ यथैवालिंग्यते पत्नी । तथैवालिंग्यते सुता ॥२॥ अथ स केवलज्ञानालंकृतो नववार्षिकः क्षुल्लकोतिमुक्तमुनिः पृथ्व्यां विरहन् भव्य जी. वांश्च प्रतिबोधयन् प्रतिदेशं, प्रतिनगरं, प्रतिग्रामं च जनगणान् विस्मापयामास, एवं विरहन सोऽतिमुक्तकेवली एकदा सूर्यपुरस्य बहिरुद्याने समवसृतः. तत्र जितशत्रुनामा नृपतिरनेकनरनारीगणोपेतस्तं केव
X-SERICA5%
DECORALIA
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अतिमुक्त
चरित्रं
Ti॥ ७॥
REX
॥ ७॥
bhabixCRE
लिनं वंदितुं समायातः. केवलिनः प्रदक्षिणां विधाय सदीयधर्मदेशनां श्रोतुं च सोऽग्रे समुपाविशत्. सर्वे नरनारीगणा अपि यथास्थानं तत्र समुपविष्टाः. अतिमुक्तकेवलिनापि धर्मदेशना प्रारब्धा. तद्यथाआयुर्वायुचलं सुरेश्वरधनुलोलं बलं यौवनं । विद्यइंडतुलं धनं गिरिनदोकल्लोलवच्चंचलं ॥ यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । तावद्धर्मफलाप्तये जनगणेः कार्यः प्रयत्नः शुभः ॥१॥ यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषो । यावद्रोगगणोऽपि नेह कुरुते स्वांगं जना जर्जरं । स्वीयश्रेयसि तावदेव विदुषा कार्यःप्रयत्नो महान् । संदीप्ते भुवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥२॥ जंतुनामवनं जिनेशनमनं भक्त्यागमाकर्णनं । साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननं ॥ मायाया हननं क्रुधश्च शमन लोभद्रुमो. न्मूलनं । चेतः शोधनमिद्रियार्थदमनं यत्तच्छिवोपायनं ॥३॥ एवंविधां केवलिनो धर्मदेशनां श्रुत्वा प्रतिबुद्धा जितशत्रुराजा सम्यक्त्वमूलद्वादशश्राद्धव्रतानि जग्राह. अन्येऽपि बहवो लोकाः भद्रकभावयुताः सम्यक्त्वं प्रापुः. एवं कियत्कालं विहृत्य सोऽतिमुक्तकेवली प्रांते मोक्षं ययौ.
॥ इति श्रीअतिमुक्तमुनिचरित्रं समाप्तं ॥ श्रीरस्तु ॥
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
20929999999999988000
BeegB000
4414745454545454545454545454545454545454545454545 ॥ इति श्रीअतिमुक्तचरित्रं समाप्तम् 4764f65f4454645464ffiff454454545454545454545
weeeeeeeeeeeeeeeeee
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mohon She Kassamaru Gamandir For Private and Persons Use Only