________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailassagarsuri Gyanmandir
अतिमुक्त
चरित्रं
॥२
॥
॥ २
॥
5-5-ARSAXER
न्मोत्सवं कृत्वा राज्ञा अतिमुक्त इति नाम दत्तं. एवं क्रमेण स बालो वृद्धि प्राप्नुवन्द अष्टवार्षिको जातः. एकदासी समवयस्कैरन्यैः बाले. समं रथ्यायां रममाणोऽभूत् . इतो गाचरचर्याये तत्र विचरंतं श्री गौतमस्वामिनं गणधरेंद्रं दृष्ट्वा सोऽतिमुक्तकुमारो हृष्टः सन् प्रणम्य प्राह, हे भगवन् ! के यूयं ? किमर्थ चात्र विचरथ ? तेरुकं वयं श्रमणाः स्मः, शुद्धाहारलाभार्थं च विहरामः. अतिमुक्तेनोक्तं, भगवन् ! तर्हि मदीयगृहे समागच्छत ? मे माता युष्मभ्यं शुद्धाहारं दास्यति, इत्युक्त्वा तदीयांगुलीलग्नः स गौतमस्वामिनं निजगृहे समानयत्. श्रीमत्यपि भगवंतं श्रीगौतमस्वामिनं समागतं दृष्ट्वाऽतीवहृष्टा शुद्वाहारैः प्रत्यलाभयत. अथ ततो निवृत्य गच्छंतं श्रीगौतमस्वामिनमनुगम्य अतिमुक्त उवाच, भगन्नहं भवादृशो भवितुमिच्छामि, तदा गौतमेनोक्तं, भो अतिमुक्तक ! त्वमद्यापि बालोऽसि, जैनदीक्षा च दुष्करास्ति, अतस्त्वया- व्रतपालनं सुदुष्करं संभाव्यते, यतः-तपःक्रियामनोगुप्ति-विनयादिसुकर्मभिः ॥ चारित्रं दुष्करं
बाल्ये । जायते नात्र संशयः ॥ १॥ तत् श्रुत्वा अतिमुक्तेनोक्तं, भगवन् ! नाहं बालः, नूनमहं महाव्रतहै स्वीकारेण भवादृशो भविष्यामि, अतो मां वदत? यूयं कुत्र वसथ ? यथाहं भवद्भिः सह तत्रागच्छामि.
I
For Private and Personal Use Only