________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrn.org
Acharya Shri Kailassagarsur Gyanmandir
4-
अतिमुक्त चरित्रं
O-SERSXE
-Kaaxe
उत्सूरस्तु सः कालस्तदेव ज्ञायते, यदा ज्ञानं भवति. तत् ज्ञानं तुममाद्यापि प्राप्तं नास्ति, इति मदुक्तवचनतत्त्वार्थो शेयः. तदुत्तरं श्रुत्वा तया वृद्धया चमत्कृतया हृदि चिंतितं, अहो! अनेन क्षुल्लकेनापि मुनिना सत्यमेव प्रोक्तं. इति विचित्य तया श्राविकया तस्यातिमुक्तमुनेः पावें हास्यकृतस्वापराधक्षमायाचनपूर्वक सम्यक्त्वमुलानि द्वादश श्राद्धव्रतानि स्वीकृतानि. अतिमुक्तक्षुल्लकोऽपि शुद्धान्नपानं विहृत्य धर्मशालायां गतः. अथैकदा स क्षुल्लकः कश्चिन्मुनिभिः सार्धं देहचिंता) बहि मो गतः, तत्र वर्षाकालत्वात कानिचिल्लघुपल्बलानि जलापूर्णान्यासन्. तेषु जलपूर्णपल्वलेषु नागरिकवालाः स्वस्वपत्रप्रवहणानि तारयंतःक्रोडयामासुः. एवं क्रीडतस्तान् बालाद दृष्ट्वा सोऽतिमुक्तमुनिवरोऽपि निजबाल्यचापल्यस्वभावतः स्वकीयकाष्टतर्पिणीपात्रं तेषु पल्वलेषु तारयन् तेर्बालैः सह क्रीडां कर्तुं प्रवृत्तः, कथयामास च भो बालाः! पश्यत ? पश्यत! ममापीयं नोर्जले तरतीति. एवं बालैः सह क्रीडंतं तं दृष्ट्वा ते स्थविरमुनयस्तं निवार्य तेन सह पुनरुपाश्रये समाजग्मुः. ततःप्रातरायश्यकं विधाय ते सर्वेऽपि मुनयोऽतिमुक्तकसंयुक्ताः श्रीमहावीरप्रभुपाचे समाययुः, तत्र च प्रभुं प्रदक्षिणीकृत्य प्रणम्य च सर्वे विनयावनभ्रास्तमतिमुक्तक्षुल्लकं पुरस्कृत्य प्रभुं विज्ञपयामासुः,
For Private and Personal Use Only