________________
Shri Mahavir Jain Aradhana Kendra
अतिमुक्त
चरित्रं
॥ ४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
या माता ससुतो भवेत् ॥ २ ॥ एवं भवे भवेऽनेक-संबंधाः कर्मयोगतः ॥ जायंते देहिनां तेन । कः पुत्रः कः पितोच्यते ॥ ३ ॥ किंच-संसारंभि असारे । नत्थि सुहं वाहिवेयणापउरे || जाणंतो इह जीवो । न कुणइ जिणदेसियं धम्मं ॥ ४ ॥ एवं मातापितरावनुज्ञाप्य सोऽतिमुक्तकुमारो महोत्सवपूर्वकं श्रीगौतमस्वामिहस्तेन प्रव्रज्यां जग्राह एवं श्रीगौतमस्वाम्यादिष्टां चारित्रक्रियां कुर्वन हृष्टचित्तःसन् सोऽतिमुक्तमुनिः शुद्धं यमं आराधयतिस्म. अथैकदा गोचरचर्यया कस्मिंश्चिद् ग्रामे भ्रमन् सोऽतिमुक्तको मुनिरेका वृद्धया हसंत्या प्रोक्तः, भो क्षुल्लकमुने! किं त्वया सकाले एव उत्सूरः कृतः ? किं ज्ञात्वा त्वयास्मिन् बाल्यवयस्येव चारित्रं गृहीतं ? एवमपूर्ववाण्या निजहृद्यतीवचमत्कृतः स क्षुल्लकोऽतिमुक्तमुनिः प्राह-यजानामि तन्न जानामि तत् श्रुत्वा सविलक्षं चमत्कृतया तया वृद्धया तदुक्तोत्तरभावार्थमजानंत्या प्राक्तं ? भो क्षुल्लकमुने! त्वया किं प्राकं ? अहं त्वदुक्तवचनतत्वार्थे ज्ञातुमशक्तास्मि तदा स क्षुल्लकोऽपि निजोक्तवचनतत्त्वार्थं जगौ भो वृद्धे ! व्रतग्रहणे सकाले बाल्येऽपि के उत्सूरं कुर्यात् ? यत् जानामि, तन्मरणं कापि वयसि निश्चितं भविष्यतीति, इति मया संसारदुःखमुक्त्यर्थं सकालेऽपि बाल्ये व्रतं गृहीतमस्ति.
For Private and Personal Use Only
मूल
॥ ४ ॥