Book Title: Atimuktak Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 6
________________ अतिमुक्त मूल चरित्रं // 4 // // 4 // ॐ-04XE या माता स सुतो भवेत् // 2 // एवं भवे भवेऽनेक-संबंधाः कर्मयोगतः // जायंते देहिनां तेन / कः पुत्रः कः पितोच्यते // 3 // किंच-संसारंमि असारे / नत्थि सुहं वाहिवेयणापउरे // जाणतो इह जीवो / न कुणइ जिणदेसियं धम्मं // 4 // एवं मातापितरावनुज्ञाप्य सोऽतिमुक्तकुमारो महोत्सवपूर्वकं श्री-|| ला गौतमस्वामिहस्तेन प्रव्रज्यां जग्राह. एवं श्रीगोतमस्वाम्यादिष्टां चारित्रक्रियां कुर्वन् हृष्टचित्तःसन् सोऽतिमुक्तमुनिः शुद्धं सयमं आराधयतिस्म. अर्थकदा गोचरचर्यया कस्मिंश्चिद्ग्रामे भ्रमन् सोऽतिमुक्तको मुनि || रेकया वृद्धया हसंत्या प्रोक्तः, भो क्षुल्लकमुने! किं त्वया सकाले एव उत्सूरः कृतः? किं ज्ञात्वा त्वयास्मिन् बाल्यवयस्येव चारित्रं गृहीतं ? एवमपूर्ववाण्या निजहृद्यतीवचमत्कृतः स क्षुल्लकोऽतिमुक्तमुनिः / प्राह-यज्जानामि तन्न जानामि. तत् श्रुत्वा सविलक्षं चमत्कृतया तया वृद्धया तदुक्तोत्तरभावार्थमजानंत्या | प्राक्तं ? भो क्षुल्लकमुने! त्वया कि प्रानं ? अहं त्वदुक्तवचनतत्त्वार्थ ज्ञातुमशक्कास्मि. तदा स क्षुल्लकोऽपि निजोक्तवचनतत्त्वार्थ जगौ, भो वृजे! व्रतग्रहणे सकाले बाल्येऽपि के उत्सूरं कुर्यात? यत जानामि, तन्मरणं क्वापि वयसि निश्चितं भविष्यतीति, इति मया संसारदुःखमुक्त्यर्थ सकालेऽपि बाल्ये व्रतं गृहीतमस्ति.Page Navigation
1 ... 4 5 6 7 8 9 10