Book Title: Ashtapad Maha Tirth 01 Page 001 to 087
Author(s): Rajnikant Shah, Kumarpal Desai
Publisher: USA Jain Center America NY

View full book text
Previous | Next

Page 77
________________ Shri Ashtapad Maha Tirth अथाऽन्तेऽष्टापदं शैलं देवेन्द्रर्बद्दशोऽर्चितः। चतुर्विधेन संघेन सहारुह्य जिनेश्वरः ॥९॥ सहस्रर्दशभिः सार्द्धमृषिभिः सन्निविष्टवान् । चतुर्दशदिनादूर्ध्वं प्राप्य स्थानं चतुर्दशम् ॥१०॥ पूर्वाह्ये शेषकर्मान्तं कृत्वा लोकं प्रकम्पयन् । अव्याबाधं सुखं क्षेमं सम्प्रापत्परमं पदम् ॥११॥ ततः सदेविका इन्द्रा आगम्य चतुरष्टकाः। शरीरमहिमां तस्य महा चक्रुरन्तिमाम् ॥१२॥ उक्तश्च दशभवनेन्द्रा द्वादश कल्पेन्द्रा व्यन्तराऽमरेन्द्रास्त्वष्टौ। ज्योतिष्केन्द्रौ द्वाविति द्वात्रिंशत्सम्मिता इन्द्राः ॥१३।। राजराजोऽपि तज्ज्ञात्वा स्वप्नैरुक्तः पुरोधसा। ससैन्यस्तूर्णमागत्य जिनदेहमपूजयंत् ॥१४।। ततोऽग्नीन्द्रकिरीटस्थचूडामणिजवह्निना।। दग्ध्वा निर्वाप्य तदेहं गन्धाम्बुकुसुमाक्षतैः ॥१५॥ गणेशामार्षभाणाञ्च चितां संस्कृत्य दक्षिणे। शेषाणां वामके पार्वे त्रीनप्यग्नीन् समर्चयत् ॥१६॥ अथेन्द्रा नृपतीन्द्राय कृत्वा हस्तप्रसारणम् । आश्वास्याभाष्य मधुरं गणेशस्तं समर्पयन् ।।१७।। ततो वृषभसेनस्तं विलपन्तं वियोगतः। अनुशास्ति स्म राजेन्द्रमितिहासमिमं ब्रुवन् ॥१८ ।। अस्माकमर्हतश्चापि सम्बन्धं श्रृणु राजराट्। चित्रसंसारकान्तारे भवादारब्धमाप्तवान् ॥१९।। यदासीद् वज्रजङ्घोऽयं भगवानष्टमे भवे । तदा मतिवरो मन्त्री तस्याभूस्त्वं हिते रतः ॥२०।। सैन्येशोऽकम्पनो यश्च सोऽयं बाहुबली नृपः। स्वसा याऽनुन्दरी तस्य सेयं ब्राह्मी तव स्वसा ॥२१॥ योऽभूदानन्दपुरोधा स इह सुन्दरसुन्दरी। पुत्रा ये वीरबाह्वाद्याः श्रीमत्यास्ते वयं नृपेट् ॥२२।। वयं कृत्वा तपः सम्यगाराधितचतुष्टयाः। आद्यग्रैवेयके सर्वे चाहमिन्द्रा बभूविम ॥२३।। (क्रमशः) -637 Puran Sarsangrah

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87