Book Title: Aryaved Jain Ved
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ ४८ अनुसंधान-२१ - विजयं कुरु, भद्रं कुरु, प्रमोदं कुरु, श्री शशाङ्काय नमः अहँ ॐ ॥ (११-२) यथा वेदमन्त्र:- (क्षीराशनमन्त्रः) ____ॐ अहँ जीवोऽसि, आत्माऽसि, पुरुषोऽसि, शब्दज्ञोऽसि, रूपज्ञोऽसि, रसज्ञोऽसि, गन्धज्ञोऽसि, स्पर्शज्ञोऽसि, सदाहारोऽसि, कृताहारोऽसि, अभ्यस्ताहारोऽसि, कावलिकाहारोऽसि, लोमाहारोऽसि, औदारिकशरीरोऽसि, अनेनाहारेण तवाङ्गं वर्धता, बलं वर्द्धतां, तेजो वर्द्धतां, पाटवं वर्द्धतां, सौष्ठवं वर्द्धतां, पूर्णायुर्भव, अहँ ॐ ॥ (१२-१) (षष्ठसंस्कारमन्त्रः) ॐ अहँ जीवोऽसि, अनादिरसि, अनादिकर्मभागसि, यत्त्वया पूर्व प्रकृतिस्थितिरसप्रदेशैराश्रववृत्त्या कर्म बद्धं तद्वन्धोदयोदीरणासत्ताभिः प्रतिभुव, मा शुभकर्मोदयफलभुक्तेरुच्छेकं दयाः, न चाशुभकर्मफलभुक्त्या विषादमाचरेः, तवास्तु संवरवृत्त्या कर्मनिर्जरा अहँ ॐ || (१३-२) (अन्नप्राशनसंस्कारमन्त्रः) ॐ अहँ भगवान्नर्हन् त्रिलोकनाथस्त्रिलोकपूजित: सुधाधाराधारितशरीरोऽपि कावलिकाहारमाहारितवान् पश्यन्नपि पारणाविधाविक्षुरसपरमान्नभोजनात्परमानन्ददायकं बलम् । तद्देहिनौदारिकशरीरमाप्तस्त्वमप्याहारय आहारं तत्ते दीर्घमायुरारोग्यमस्तु अर्ह ॐl (१६-२) . _ (कर्णवेधसंस्कारमन्त्रः) ॐ अर्ह श्रुतेनाङ्गैरुपाङ्गैः कालिकैरुत्कालिकैः पूर्वगतैश्चूलिकाभिः परिकर्मभिः सूत्रैः पूर्वानुयोगैः छन्दोभिलक्षणैर्निरुक्तैर्धर्मशास्त्रविद्धकौँ भूयात् अर्ह ॐ ॥ शूद्रादेस्तु ॐ अहं तव श्रुतिद्वयं हृदयं धर्माविद्धमस्तु ।। (१७-२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11