Book Title: Aryaved Jain Ved
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ ४७ ऑक्टोबर २००२ आर्यवेदमन्त्रो यथा -- (गर्भाधानमन्त्रः) ___ ॐ अहँ जीवोऽसि जीवतत्त्वमसि प्राण्यसि प्राणोऽसि, जन्म्यसि, जन्मवानसि, संसार्यसि, संसरन्नसि, कर्मवानसि, कर्मबद्धोऽसि, भवभ्रान्तोऽसि, भवसंबिभ्रमिषुरसि, पूर्णाङ्गोऽसि, पूर्णपिण्डोसि, जातोपाङ्गोऽसि, जायमानोपाङ्गोऽसि, स्थिरो भव, नन्दिमान् भव, वृद्धिमान् भव, पुष्टिमान् भव, ध्यातजिनो भव, ध्यातसम्यक्त्वो भव, तत्कुर्या न येन पुनर्जन्मजरामरणसंकुलं संसारवासं गर्भवासं प्राप्नोषि अर्ह ॐ ॥ (७-१) (पुंसवनसंस्कारमन्त्रः) ॐ अहँ नमस्तीर्थङ्करनामकर्मप्रतिबन्धसंप्राप्तसुरासुरेन्द्रपूजायार्हते आत्मने त्वमात्मायुःकर्मबन्धप्राप्यं तं मनुष्यजन्मगर्भावासमवाप्तोऽसि, तद्भवजन्मजरामरणगर्भवासविच्छित्तये प्राप्तार्हद्धर्मोऽर्हद्भक्त: सम्यक्त्वनिश्चल: कुलभूषण: सुखेन तव जन्मास्तु । भवतु तव त्वन्मातापित्रोः कुलस्याभ्युदयः, ततः शान्तिः । तुष्टिर्वृद्धिः ऋद्धिः कान्ति: सनातनी अहँ ॐ ॥ (९-१) सूर्यवेदमन्त्रो यथा- (सूर्यदर्शनमन्त्रः) ___ ॐ अहँ सूर्योऽसि, दिनकरोऽसि, सहस्रकिरणोऽसि, विभावसुरसि, तमोऽपहोऽसि, प्रियङ्करोऽसि, शिवङ्करोऽसि, जगच्चक्षुरसि, सुरवेष्टितोऽसि, मुनिवेष्टितोऽसि, विततविमानोऽसि, तेजोमयोऽसि, अरुणसारथिरसि, मार्तण्डोऽसि, द्वादशात्माऽसि, चक्रबान्धवोऽसि, नमस्ते भगवन् प्रसीदास्य कुलस्य तुष्टिं पुष्टि प्रमोदं कुरू कुरू, सन्निहितो भव अर्ह ॐ ॥ (११-१) चन्द्रस्य वेदमन्त्रो क्या- (चद्रदर्शनमन्त्रः) ____अहं चन्द्रोऽसि, निशाकरोऽसि, सुधाकरोऽसि, चन्द्रमा असि, ग्रहपतिरसि, नक्षत्रपतिरसि, कौमुदीपतिरसि, निशापतिरसि, मदनमित्रमसि, जगज्जीवनमसि, जैवातृकोऽसि, क्षीरसागरोद्भवोऽसि, श्वेतवाहनोऽसि, राजाऽसि, राजराजोऽसि, औषधीगर्भोऽसि, वन्द्योऽसि, पूज्योऽसि, नमस्ते भगवन् ! अस्य कुलस्य ऋद्धिं कुरु, वृद्धि कुरु, तुष्टिं कुरु, पुष्टि कुरु, जयं कुरु, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11