Book Title: Anubhutsiddh Visa Yantra
Author(s): Meghvijay
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 144
________________ १२६ ॥ श्रीअर्जुनपताका ॥ यद्वा अप्सरोगणः सुरवधूसमूहः, संवश्चतुर्विधस्ताभ्यां संस्तुतः. यद्वा अप्सरस उपलक्षणत्वात्समग्रदेवदेव्यः, गणः, साधुसमुदायः, सोऽस्त्येषां, अर्शआदिभ्यअच्. गणाः गणधरा इंद्रभूत्यादयः, संघः श्रमणदिश्चतुविधा, तैः संस्तुतः. पुनः कीदृशो वीरजिनेंद्रः ? भगवान् , ज्ञानादिगुणयुक्तः, प्रथमगाथायामुक्तविशेषणत्वात्पुनरुक्तिदोषो नाशंकनीयः उक्तं च-सज्ञायज्ञाण तवो-सहेसु उवएसथुइपयाणेसु ॥ संतगुणकित्तणासु य । न हुंति पुणरुत्तदोसाउ ॥ १॥ पुनः किंविशिषो वीरजिनेंद्रः? एवं पूर्वोक्तप्रकारेण पादलिप्तकमतिमहितः, लिप्तौ पादौ यस्य स पादलिप्तः, वाहिताग्न्यादिष्विति निष्टांतस्य परनिपातः, स्वार्थे कनि, पादलिप्तकः प्राकृते तु कगचजतदपयवांप्रायोलुगिति सूत्रेण दकारलोपेऽकारस्य सवर्णदीर्घ पालित्तय इति भवति, तस्य या मतिर्बुद्धिस्तया महितः स्तुतिरूपपूजया पूजितः, अर्थात् कासद्रहगच्छीयपादलिप्तसूरिकृतमेतत्स्तोत्रमित्यर्थः ॥ ६॥ विधिपक्षगणाधीशाः । सूरयो भूरिसद्गुणाः ॥ श्रीअमरसागराख्या। विचरंति महीतले ॥१॥ तत्पक्षद्योतकाः श्रीम-हयासागरवाचकाः ॥ सच्चारित्रगुणोपेता । ज्ञानविज्ञानपेशलाः ॥२॥ तेषां प्रसादमासाद्य । पुण्यसागरवाचकैः ॥ महावीरस्तवस्येयं । टीका विरचिता शुभा ॥३॥ नंदाग्निमुनिभूसंख्ये । वर्षे मास्याश्विने सित ॥ दशम्यां रविवारे च । बुरहानपुरे पुरे ॥ ४॥ इति श्रीमहावीरस्तवस्यावचूरिः संपूर्णा ॥ श्रीरस्तु॥ गाहा जुअल स्तुतिः आनायः पादलिप्तसूरी विरचित स्वोपज्ञस्तोत्रानायः गाहा जूअलेणजिणं । मयमोह विवज्जिअं जिअ कसायं ॥ थोसामि तिसंघाएणं । तिण्णसंग महावीरं ॥१॥ आम्नाय गा० गाऽभ्रकं ॥ हाहारितालो ॥ जूअलेणतार मुच्यते॥ जिनं पारदं कथं भूतं मयमोह विवर्जितं जिआणंगमल शिखिविषं दोषत्रय Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150